सर्वाष् टीकाः ...{Loading}...
०१ न तस्मात् पूर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
न तस्मात् पूर्वं न परं न्व् अस्ति
न भूतं नोत भव्यं यद् आसीत् ।
सहस्रपाद् एकमूर्धा द्व्यात्मा
स एवेदम् आ वरीवर्ति भूतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
न तस्मात् पूर्वं न परं न्व् अस्ति
न भूतं नोत भव्यं यद् आसीत् ।
सहस्रपाद् एकमूर्धा द्व्यात्मा
स एवेदम् आ वरीवर्ति भूतम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ एकैकं ये अपतन्
विश्वास-प्रस्तुतिः ...{Loading}...
एकैकं ये अपतन् सुपर्णाः +++(Bhatt. apataṃ)+++
सोमं दिप्सन्तो ऽह्या निबाढाः ।
कस् तेषां वेद पितरं मातरं च
को निदानं क आत्मानम् एषाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकैकं ये अपतन् सुपर्णाः +++(Bhatt. apataṃ)+++
सोमं दिप्सन्तो ऽह्या निबाढाः ।
कस् तेषां वेद पितरं मातरं च
को निदानं क आत्मानम् एषाम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ येभिर् वात इषितः
विश्वास-प्रस्तुतिः ...{Loading}...
येभिर् वात इषितः प्रवाति
ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिम् अत्यमन्यन्त देवा
अपां नेतारः कतमे त आसन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
येभिर् वात इषितः प्रवाति
ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिम् अत्यमन्यन्त देवा
अपां नेतारः कतमे त आसन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमाम् एषां पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमाम् एषां पृथिवीं वस्त एको
अन्तरिक्षं पर्य् एको बभूव ।
दिवम् एषां ददते यो विधर्ता
सर्वा दिशो रक्षत्य् एक एषाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमाम् एषां पृथिवीं वस्त एको
अन्तरिक्षं पर्य् एको बभूव ।
दिवम् एषां ददते यो विधर्ता
सर्वा दिशो रक्षत्य् एक एषाम् ॥