०२५

सर्वाष् टीकाः ...{Loading}...

०१ बिभर्त्य् अंशुं प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

बिभर्त्य् अंशुं प्रति मुञ्चते स्रजम् (Bhatt. vi bharty)
उद् ऊहते रश्मीन् अंशुं बृहन्तम् । (ūhate emend. Bhatt. (vs. uhate))
दिवाकरः पश्यति यत् परात् परं
प्राह्णा प्र वर्ष्मणा विश्वम् अप्राङ्
हिरण्ययो हरितः केतुर् उद्यन् ॥

०२ आरोहञ् छुक्रो बृहतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

आरोहञ् छुक्रो बृहतीर् अतन्द्रो (Bhatt. ārohañ śukro)
मर्त्यः कृणुते वीर्याणि ।
दिव्यः सुपर्णो महिषो वातरंहा
यत् सर्वान् लोकाꣳ अभि यद् विभाति ॥ (Bhatt. sarvāṃ)

०३ अभ्य् अन्यद् एति

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्य् अन्यद् एति पर्य् अन्यद् वसानो
ऽहोरात्राभ्यां महिषः कल्पमानः ।
सूर्यं वयं रजसि क्षियन्तं
गातुविदं हवामहे नाथकामाः ॥

०४ पृथिवीप्रो महिषो नाधमानस्य

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिवीप्रो महिषो नाधमानस्य
गातुर् अदब्धचक्षुः परि सर्वं बभूव ।
विश्वं संपश्यन् सुविदत्रो यजत्रः (Bhatt. saṃpaśyaṃ, yajatra(ḥ))
शिवया नस् तन्वा शर्म यच्छात् ॥

०५ पर्य् अस्य महिमा

विश्वास-प्रस्तुतिः ...{Loading}...

पर्य् अस्य महिमा पृथिवीं समुद्रं
ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् ।
अहोरात्राभ्यां सह संविदान
उपा न आयुः प्र तिराद् अरिष्टम् ॥

०६ अबोध्य् अग्निः समिधा

विश्वास-प्रस्तुतिः ...{Loading}...

अबोध्य् अग्निः समिधा जनानां
प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा इव प्र वयाम् उज्जिहानाः
प्र भानवः सिस्रते नाकम् अच्छ ॥

०७ कुमारं माता युवतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

कुमारं माता युवतिर् गर्भम् अन्तर्
गुहा बिभर्ति न ददाति पित्रे ।
अनीकम् अस्य न मिनज् जनासः
पुरः पश्यन्ति निहितम् अरतौ ॥

०८ तम् एतं त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

तम् एतं त्वं युवते कुमारं
त्वेषी बिभर्षि महिषी जजान ।
उर्वीर् हि गर्भः शरदो ववर्ध-
-अपश्यं जातं यम् असूत माता ॥

०९ यस्य तिस्रो वर्तन

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य तिस्रो वर्तन एकधा सतो (Bhatt. varttana (⟨ varttanaya?))
यस्मै बलिं देवजना हरन्ति ।
तस्यासौ द्यौः पृथिव्य् अन्तरिक्षं
गुहा तिष्ठन्ति वसुना समक्ताः ॥

१० नव दिवो देवजनेन

विश्वास-प्रस्तुतिः ...{Loading}...

नव दिवो देवजनेन गुप्ता
नवान्तरिक्षाणि नव भूमय इमाः ।
यस्मिन्न् इदं सर्वम् ओतं प्रोतं (otaṃ emend. Barret; Bhatt. ota-)
यस्माद् अन्यन् न परं किं चनास्ति ॥