सर्वाष् टीकाः ...{Loading}...
०१ चित्रं देवानां केतुर्
विश्वास-प्रस्तुतिः ...{Loading}...
चित्रं देवानां केतुर् अनीकं
ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
दिवाकरो अति द्युम्नैस् तमांसि
विश्वातारीद् दुरितानि शुक्रः ॥ (Bhatt. viśvātārī(d))
मूलम् ...{Loading}...
मूलम् (GR)
चित्रं देवानां केतुर् अनीकं
ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
दिवाकरो अति द्युम्नैस् तमांसि
विश्वातारीद् दुरितानि शुक्रः ॥ (Bhatt. viśvātārī(d))
सर्वाष् टीकाः ...{Loading}...
०२ चित्रं देवानाम् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
चित्रं देवानाम् उद् अगाद् अनीकं
चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्य आत्मा जगतस् तस्थुषश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
चित्रं देवानाम् उद् अगाद् अनीकं
चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्य आत्मा जगतस् तस्थुषश् च ॥
सर्वाष् टीकाः ...{Loading}...
०३ उच्चा पतन्तम् अरुणम्
विश्वास-प्रस्तुतिः ...{Loading}...
उच्चा पतन्तम् अरुणं सुपर्णं
मध्ये दिवस् तरणिं भ्राजमाणम् ।
पश्येम त्वा सवितारं यम् आहुर्
अजस्रं ज्योतिर् यद् अविन्दद् अत्रिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्चा पतन्तम् अरुणं सुपर्णं
मध्ये दिवस् तरणिं भ्राजमाणम् ।
पश्येम त्वा सवितारं यम् आहुर्
अजस्रं ज्योतिर् यद् अविन्दद् अत्रिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ दिवस् पृष्ठे धावमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
दिवस् पृष्ठे धावमानं सुपर्णम्
अदित्याः पुत्रं नाथकाम उप यामि भीतः । (Bhatt. yāma; yāmi with ŚS)
स नः सूर्य प्र तिर दीर्घम् आयुर्
मा रिषाम सुमतौ ते स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवस् पृष्ठे धावमानं सुपर्णम्
अदित्याः पुत्रं नाथकाम उप यामि भीतः । (Bhatt. yāma; yāmi with ŚS)
स नः सूर्य प्र तिर दीर्घम् आयुर्
मा रिषाम सुमतौ ते स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०५ अहोरात्राणि विदधत् कृण्वाणः
विश्वास-प्रस्तुतिः ...{Loading}...
अहोरात्राणि विदधत्
कृण्वाणः पार्थिवं रजः ।
नवंनवं सखीभवं
कृणुषे देव सूर्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहोरात्राणि विदधत्
कृण्वाणः पार्थिवं रजः ।
नवंनवं सखीभवं
कृणुषे देव सूर्य ॥
सर्वाष् टीकाः ...{Loading}...
०६ सहस्राह्ण्यं वियताव् अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्राह्ण्यं वियताव् अस्य पक्षौ
हरेर् हंसस्य पचतः स्वर्गम् । (read patataḥ)
स विश्वान् देवान् उरस्य् उपदद्य
संपश्यन् याति भुवनानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्राह्ण्यं वियताव् अस्य पक्षौ
हरेर् हंसस्य पचतः स्वर्गम् । (read patataḥ)
स विश्वान् देवान् उरस्य् उपदद्य
संपश्यन् याति भुवनानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०७ रोहितो लोको अभवद्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो लोको अभवद्
रोहितो ऽग्रे प्रजापतिः ।
रोहितो यज्ञानां मुखं
रोहितो ज्योतिर् उच्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो लोको अभवद्
रोहितो ऽग्रे प्रजापतिः ।
रोहितो यज्ञानां मुखं
रोहितो ज्योतिर् उच्यते ॥
सर्वाष् टीकाः ...{Loading}...
०८ रोहितो भूतो अभवद्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो भूतो अभवद्
रोहितो भव्यम् आभरत् ।
रोहितो यज्ञानां मुखं
रोहितः स्वर् आ भरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो भूतो अभवद्
रोहितो भव्यम् आभरत् ।
रोहितो यज्ञानां मुखं
रोहितः स्वर् आ भरत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ रोहितः कालो अभवद्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितः कालो अभवद्
रोहितो ऽत्य् अतपद् दिवम् ।
रोहितो रश्मिभिर् भूमिं
समुद्रम् अनु सं चरात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितः कालो अभवद्
रोहितो ऽत्य् अतपद् दिवम् ।
रोहितो रश्मिभिर् भूमिं
समुद्रम् अनु सं चरात् ॥
सर्वाष् टीकाः ...{Loading}...
१० सर्वा दिशः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वा दिशः सं चरति
रोहितो अधिपतिर् दिवः ।
दिवं समुद्रम् आद् भूमिं
सर्वान् लोकान् वि रक्षतु ॥ (Bhatt. sarvāṃ)
मूलम् ...{Loading}...
मूलम् (GR)
सर्वा दिशः सं चरति
रोहितो अधिपतिर् दिवः ।
दिवं समुद्रम् आद् भूमिं
सर्वान् लोकान् वि रक्षतु ॥ (Bhatt. sarvāṃ)