०२३

सर्वाष् टीकाः ...{Loading}...

०१ वज्रायेव साद्धियः कीर्तिम्

विश्वास-प्रस्तुतिः ...{Loading}...

वज्रायेव साद्धियः (Bhatt. sāddhiyaḥ (⟨ sādhvyaḥ+?))
कीर्तिं श्रेमाणम् आ वहान् ।
मह्यम् आयुर् घृतप्रियः ॥

०२ रोहितो दिवम् आक्रमीत्

विश्वास-प्रस्तुतिः ...{Loading}...

रोहितो दिवम् आक्रमीत् तपसा तपस्वी ।
स योनिम् ऐति स उ जायते पुनः
स देवानाम् अधिपतिर् बभूव ॥

०३ यो विश्वचर्षणिर् उत

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वचर्षणिर् उत विश्वतोमुखो
विश्वतस्पाणिर् उतविश्वतस्पृधः । (Bhatt. emend. -thaḥ ।)
सं बाहुभ्यां भरति सं पतत्रैर्
द्यावापृथिवी जनयन् देव एकः ॥

०४ एकपाद् द्विपदो भूयो

विश्वास-प्रस्तुतिः ...{Loading}...

एकपाद् द्विपदो भूयो वि चक्रमे
द्विपात् त्रिपादम् अभ्य् एति पश्चात् ।
त्रिपाद् ध षट्पदो भूयो वि चक्रमे
त एकपदस् तन्वां सम् आसते ॥

०५ अतन्द्रो यास्यन् हरितो

विश्वास-प्रस्तुतिः ...{Loading}...

अतन्द्रो यास्यन् हरितो यद् आस्था
दिवि रूपं कृणुषे रोचमानः ।
केतुमाꣳ उद्यन् सहमानो रजांसि
विश्वा आदित्य प्रवतो वि भासि ॥

०६ बण् महां असि

विश्वास-प्रस्तुतिः ...{Loading}...

बण् महाꣳ असि सूर्य
बड् आदित्य महाꣳ असि ।
महांस् ते महतो महिमा
त्वम् आदित्य महाꣳ असि ॥

०७ रोचसे दिवि रोचसे

विश्वास-प्रस्तुतिः ...{Loading}...

रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग
पृथिव्यां रोचसे रोचसे अप्स्व् अन्तः ।
उभा समुद्रौ रुच्या व्य् आपिथ
देवो देवासि महिषः स्वर्वित् ॥

०८ अर्वाक् परस्ताद् वियतो

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वाक् परस्ताद् वियतो व्यध्व
आशुर् विपश्चित् पतयन् पतङ्गः ।
विष्णुर् विचित्तः शवसाधितिष्ठन्
प्र केतुना सहते विश्वम् एजत् ॥

०९ तिग्मो विभ्राजन् तन्वः

विश्वास-प्रस्तुतिः ...{Loading}...

तिग्मो विभ्राजन् तन्वः शिशानो
ऽरंगमासः प्रवतो रराणः ।
ज्योतिष्मान् पक्षी महिषो वयोधा
विश्वा आस्थात् प्रदिशः कल्पमानः ॥

१० चित्रश् चिकित्वान् महिषः

विश्वास-प्रस्तुतिः ...{Loading}...

चित्रश् चिकित्वान् महिषः सुपर्ण
आरोचयन् रोदसी अन्तरिक्षम् ।
अहोरात्रे परि सूर्यं वसाने
प्रास्य विश्वा तिरतो वीर्याणि ॥