०२२

सर्वाष् टीकाः ...{Loading}...

०१ अप त्ये तायवो

विश्वास-प्रस्तुतिः ...{Loading}...

अप त्ये तायवो यथा
नक्षत्रा यन्त्य् अक्तुभिः ।
सूराय विश्वचक्षसे ॥

०२ अदृश्रम् अस्य केतवो

विश्वास-प्रस्तुतिः ...{Loading}...

अदृश्रम् अस्य केतवो
वि रश्मयो जनाꣳ अनु ।
भ्राजन्तो अग्नयो यथा ॥

०३ तरणिर् विश्वदर्शतो ज्योतिष्कृद्

विश्वास-प्रस्तुतिः ...{Loading}...

तरणिर् विश्वदर्शतो
ज्योतिष्कृद् असि सूर्य ।
विश्वम् आ भासि रोचनः ॥ (Bhatt. rocanaḥ (⟨ rocanam*?))

०४ प्रत्यङ् देवानां विशः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यङ् देवानां विशः
प्रत्यङ्ङ् उद् एषि मानुषीः ।
प्रत्यङ् विश्वं स्वर् दृशे ॥

०५ येना पावक चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

येना पावक चक्षुषा
भुरण्यन्तं जनाꣳ अनु ।
त्वं वरुण पश्यसि ॥

०६ वि द्याम् एषि

विश्वास-प्रस्तुतिः ...{Loading}...

वि द्याम् एषि रजस् पृथ्व्
अहर् मिमानो अक्तुभिः ।
पश्यन् जन्मानि सूर्य ॥

०७ सप्त त्वा हरितो

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त त्वा हरितो रथे
वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् ॥

०८ अयुक्त सप्त शुन्ध्युवः

विश्वास-प्रस्तुतिः ...{Loading}...

अयुक्त सप्त शुन्ध्युवः
सूरो रथस्य नप्त्यः ।
तभिर् याति स्वयुक्तिभिः ॥

०९ अभि मा वर्चसा

विश्वास-प्रस्तुतिः ...{Loading}...

अभि मा वर्चसा गिरः
सिञ्चन्तीर् आ चरण्यथ ।
अभि वत्सं न धेनवः ॥

१० ता अर्षन्ति शुभ्रियः

विश्वास-प्रस्तुतिः ...{Loading}...

ता अर्षन्ति शुभ्रियः
पृञ्चतीर् वर्चसा प्रियः ।
जातं जात्रीर् यथा हृदा ॥