०२०

सर्वाष् टीकाः ...{Loading}...

०१ वेदिं भूमिं कल्पयित्वा

विश्वास-प्रस्तुतिः ...{Loading}...

वेदिं भूमिं कल्पयित्वा
दिवं कृत्वा दक्षिणाम् ।
घ्रंसं तद् अग्निं कृत्वा
चकार विश्वम् आत्मन्वद्
वर्षेणाज्येन रोहितः ॥

०२ वर्षम् आज्यं घ्रंसो

विश्वास-प्रस्तुतिः ...{Loading}...

वर्षम् आज्यं घ्रंसो अग्निर्
वेदिर् भूमिर् अकल्पत ।
तत्रैतान् पर्वताꣳ अग्निर् (Bhatt. tatraitāṃ)
गीर्भिर् ऊर्ध्वाꣳ अकल्पयत् ॥

०३ गीर्भिर् ऊर्ध्वान् कल्पयित्वा

विश्वास-प्रस्तुतिः ...{Loading}...

गीर्भिर् ऊर्ध्वान् कल्पयित्वा
रोहितो भूमिम् अब्रवीत् ।
त्वद् इदं सर्वं जायतां
यद् भूतं यच् च भाव्यम् ॥

०४ स यज्ञः प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

स यज्ञः प्रथमो भूतो
भव्यो अजायत ।
तस्माद् ध यज्ञ इदं सर्वं
यत् किं चेदं विरोचते
रोहितेन र्षिणाभृतम् ॥

०५ उद् अस्य केतवो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अस्य केतवो दिवि
शुक्रा भ्राजन्त ईरते ।
आदित्यस्य नृचक्षसो
महिव्रतस्य मीदुषः ॥

०६ दिशां प्रज्ञानं स्वरयन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

दिशां प्रज्ञानं स्वरयन्तम् अर्चिषा
सुपक्षम् आशुं पतयन्तम् अर्णवे ।
स्तवाम सूर्यं भुवनस्य गोपां
यो रश्मिभिर् दिश आभाति सर्वाः ॥ (Bhatt. sarvā(ḥ))

०७ यत् प्राङ् प्रत्यङ्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं
नानारूपे अहनी कर्षि मायया ।
तद् आदित्य महि तत् ते महि श्रवो
यद् एको विश्वं परि भूम जायसे ॥

०८ विपश्चितं तरणिं भ्राजमानम्

विश्वास-प्रस्तुतिः ...{Loading}...

विपश्चितं तरणिं भ्राजमानं
वहन्ति यं हरितः सप्त बह्वीः ।
स्तुताद् यम् अत्रिर् दिवम् उन्निनाय
तं त्वा पश्येम परियन्तम् आजिम् ॥

०९ मा त्वा दभन्

विश्वास-प्रस्तुतिः ...{Loading}...

मा त्वा दभन् परियन्तम् आजिं
सुगेन दुर्गम् अति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीम्
अहोरात्रे विमिमानो यद् एषि ॥

१० स्वस्ति ते सूर्य

विश्वास-प्रस्तुतिः ...{Loading}...

स्वस्ति ते सूर्य चरसे रथाय
येनोभाव् अन्तौ परियासि सद्यः ।
यं ते वहन्ति हरितो वहिष्ठास्
तम् आ रोह सुखम् आश्वश्वम् ॥