०१९

सर्वाष् टीकाः ...{Loading}...

०१ अवः परेण पर

विश्वास-प्रस्तुतिः ...{Loading}...

अवः परेण पर इत्य् एका ॥ +++(PS 16.67.7 is repeated)+++

०२ एकपदी द्विपदी सा

विश्वास-प्रस्तुतिः ...{Loading}...

एकपदी द्विपदी सा चतुष्पद्य्
अष्टापदी नवपदी बभूवुषी ।
सहस्राक्षरा भुवनस्य पङ्क्तिस्
त्यस्याः समुद्रा अधि वि क्षरन्ति ॥

०३ आरोहन् द्याम् अमृतः

विश्वास-प्रस्तुतिः ...{Loading}...

आरोहन् द्याम् अमृतः प्राव मे वच
उत् त्वा यज्ञा ब्रह्मपूता वहन्ति ।
घृतं पिबन्तं हरयस् त्वा वहन्ति ॥

०४ वेद तत् ते

विश्वास-प्रस्तुतिः ...{Loading}...

वेद तत् ते अमर्त्ति
यत् त आक्रमणं दिवि ।
यत् ते सधस्थं परमे व्योमन् ॥

०५ सूर्यो द्यां सूर्यः

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यो द्यां सूर्यः पृथिवीं
सूर्य आपो ऽति पश्यति ।
सूर्यो भूतस्यैकं चक्षुर्
आ रुरोह दिवं महीम् ॥

०६ उर्वीर् आसन् परिधयो

विश्वास-प्रस्तुतिः ...{Loading}...

उर्वीर् आसन् परिधयो
वेदिर् भूमिर् अकल्पत ।
तत्रैताव् अग्नी आधत्त
हिमं घ्रंसं च रोहितः ॥

०७ हिमं घ्रंसं चाधाय

विश्वास-प्रस्तुतिः ...{Loading}...

हिमं घ्रंसं चाधाय
यूपान् कृत्वा पर्वतान् ।
वर्षाज्याव् अग्नी ईजाते
रोहितस्य स्वर्विदः ॥

०८ स्वर्विदो रोहितस्य ब्रह्मणाग्निः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर्विदो रोहितस्य
ब्रह्मणाग्निः समाहितः ।
तस्माद् घ्रंसस् तस्माद् धिमस्
तस्माद् यज्ञो अजायत ॥

०९ ब्रह्मणाग्निः संइधानो ब्रह्मवृद्धो

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणाग्निः संइधानो
ब्रह्मवृद्धो ब्रह्महुतः ।
ब्रह्मेद्धाव् अग्नी ईजाते
रोहितस्य स्वर्विदः ॥

१० अप्स्व् अन्यः समाहितः

विश्वास-प्रस्तुतिः ...{Loading}...

अप्स्व् अन्यः समाहितः
सत्ये अन्यः समाहितः ।
(…) ॥ +++(see 1cd)+++

११ यं वातः परिशुम्भति

विश्वास-प्रस्तुतिः ...{Loading}...

यं वातः परिशुम्भति
यम् इन्द्रो ब्रह्मणस्पतिः ।
ब्रह्मेद्धाव् अग्नी ईजाते
रोहितस्य स्वर्विदः ॥