०१८

सर्वाष् टीकाः ...{Loading}...

०१ अवाचीनान् अव जहि

विश्वास-प्रस्तुतिः ...{Loading}...

अवाचीनान् अव जहि-
-इन्द्र वज्रेण बाहुमान् ।
अधा सपत्नान् ममकान्
अग्नेस् तेजोभिर् आ ददे ॥

०२ उद्यन् त्वं देव

विश्वास-प्रस्तुतिः ...{Loading}...

उद्यन् त्वं देव सूर्य
सपत्नान् मे +ऽधरान् कृणु । +++(Bhatt. medharāṃ (⟨ rān))+++
अवैनान् अश्मना जहि +++(Bhatt. aśmi(⟨ śma*)nā)+++
ते यन्त्व् अधमं तमः ॥

०३ वत्सो विराजो वृषभो

विश्वास-प्रस्तुतिः ...{Loading}...

वत्सो विराजो वृषभो मतीनाम्
आ रुरोह शुक्रपृष्ठो ऽन्तरिक्षम् ।
घृतेणार्कम् अभ्य् अर्चन्ति वत्सं
ब्रह्म सन्तं ब्रह्मणा वर्धयन्तु ॥

०४ दिवं च रोह

विश्वास-प्रस्तुतिः ...{Loading}...

दिवं च रोह पृथिवीं च रोह
राष्ट्रं च रोह द्रविणं च रोह ।
प्रजां च रोहामृतं च रोह
रोहितेन तन्वं सं स्पृशस्व ॥

०५ ये देवा राष्ट्रभृतो

विश्वास-प्रस्तुतिः ...{Loading}...

ये देवा राष्ट्रभृतो
ऽभितो यन्ति सूर्यम् ।
तेभिष् टे रोहितः संविदानो
राष्ट्रं दधातु सुमनस्यमानः ॥

०६ उत् त्वा यज्ञा

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य्
अध्वगतो हरयस् त्वा वहन्ति ।
तिरः समुद्रम् अति रोचसे ऽर्णवम् ॥

०७ रोहिते द्यावापृथिवी अधि

विश्वास-प्रस्तुतिः ...{Loading}...

रोहिते द्यावापृथिवी अधि श्रिते +++(Bhatt. rohito (⟨ te*))+++
वसुजिति गोजिति संजिति संधनाजिति ।
सहस्रं यस्य द्रविणानि सप्त च
वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥ +++(Bhatt. voca(⟨ ce)yante)+++

०८ यशा यासि प्रदिशो

विश्वास-प्रस्तुतिः ...{Loading}...

यशा यासि प्रदिशो दिशो ऽनु
यशाः पशूनाम् उत चर्षणीनाम् ।
यशाः पृथिव्या अदित्या उपस्थे
ऽहम् अस्मि सवितेव चारुः ॥

०९ अमुत्र सन्न् इह

विश्वास-प्रस्तुतिः ...{Loading}...

अमुत्र सन्न् इह वेत्थ-
-इह सन् तानि पश्यति ।
इतः पश्यन्ति रोचनं
दिवि सूर्यं विपश्चितम् ॥

१० देवो देवम् अर्चयत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

देवो देवम् अर्चयत्य्
अन्तश् चरत्य् अर्णवे ।
समानम् अग्निम् इन्धते
तं विदुः कवयः परे ॥