०१७

सर्वाष् टीकाः ...{Loading}...

०१ यं त्वा पृषती

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा पृषती रथे
पृष्टिर् वहति रोहितः ।
शुभा यासि रिणन्न् अपः ।
तेनेमं ब्रह्मणस्पते
रोहं रोहयोत्तमम् ॥

०२ अनुव्रता रोहिणी रोहितस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अनुव्रता रोहिणी रोहितस्य
सूरिः सुपर्णा बृहती सुवर्चाः ।
तया वाजान् विश्वरूपां जयेम
तया विश्याः पृतना अभि ष्याम ॥

०३ इदं सदो रोहिणी

विश्वास-प्रस्तुतिः ...{Loading}...

इदं सदो रोहिणी रोहितस्य-
-असौ पन्थाः पृषती येन याति ।
तां गन्धर्वाः कश्यपा उन् नयन्ति
तां रक्षन्ति कवयो ऽप्रमादम् ॥

०४ सूर्यस्याश्वा हरयः केतुमन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यस्याश्वा हरयः केतुमन्तः
सदा वहन्त्य् अमृताः सुखं रथम् ।
घृतपावा रोहितो भ्राजमानो
दिवं देवः पृषतीम् आ विवेष ॥

०५ यो रोहितो वृषभस्

विश्वास-प्रस्तुतिः ...{Loading}...

यो रोहितो वृषभस् तिग्मशृङ्गः
पर्य् अग्निं परि सूर्यं बभूव ।
यो विष्टभ्नाति पृथिवीं दिवं च
तस्माद् देवा अधि सृष्टीः सृजन्ते ॥

०६ रोहितो दिवम् आरुहन्

विश्वास-प्रस्तुतिः ...{Loading}...

रोहितो दिवम् आरुहन्
महतस् पर्य् अर्णवात् ।
सर्वा रुरोह रोहितो रुहः ॥ +++(Bhatt. ruha(ḥ))+++

०७ वि मिमीष्व पयस्वतीम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि मिमीष्व पयस्वतीं घृताचीं
देवानां धेनुर् अनपस्पृग् एषा ।
इन्द्रः सोमं पिबतु क्षेमो अस्त्व्
अग्निः प्र स्तौतु वि मृधो नुदस्व ॥

०८ समिद्धो अग्निः समिधानो

विश्वास-प्रस्तुतिः ...{Loading}...

समिद्धो अग्निः समिधानो
घृतवृद्धो घृताहुतः ।
अभीषाड् विश्वाषाड् अग्निः
सपत्नान् हन्तु ये मम ॥

०९ हन्त्व् एनान् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

हन्त्व् एनान् प्र दहत्व्
अग्निर् यो नः पृतन्यति ।
क्रव्यादाग्निना वयं
सपत्नान् प्र दहामसि ॥

१० अग्ने सपत्नम् अधरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने सपत्नम् अधरं पादयास्मद्
व्यथया सजातम् उत्पिपानं बृहस्पते ।
इन्द्राग्नी मित्रावरुणाव्
अधरे पद्यन्ताम् अप्रतिमन्यूयमानाः ॥