सर्वाष् टीकाः ...{Loading}...
०१ ऊर्ध्वो रोहितो अधि
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वो रोहितो अधि नाके अस्थाद्
विश्वा रूपाणि जनयन् युवा कविः ।
तिग्मेनाग्निर् ज्योतिषा वि भाति
तृतीये चक्रे रजसि प्रियाणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वो रोहितो अधि नाके अस्थाद्
विश्वा रूपाणि जनयन् युवा कविः ।
तिग्मेनाग्निर् ज्योतिषा वि भाति
तृतीये चक्रे रजसि प्रियाणि ॥
सर्वाष् टीकाः ...{Loading}...
०२ सहस्रशृङ्गो वृषभो जातवेदा
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रशृङ्गो वृषभो जातवेदा
घृताहुतः सोमपृष्ठः सुवीरः ।
मा मा हासीन् नाथितो नेत् त्वा जहानि +++(Bhatt. ne(t)tvā)+++
गोपोषं च मे वीरपोषं च धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रशृङ्गो वृषभो जातवेदा
घृताहुतः सोमपृष्ठः सुवीरः ।
मा मा हासीन् नाथितो नेत् त्वा जहानि +++(Bhatt. ne(t)tvā)+++
गोपोषं च मे वीरपोषं च धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०३ रोहितो यज्ञस्य जनिता
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो यज्ञस्य जनिता मुखं च
रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
रोहितं देवा यन्ति सुमनस्यमानाः
स मा रोहैः सामित्यै रोहयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो यज्ञस्य जनिता मुखं च
रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
रोहितं देवा यन्ति सुमनस्यमानाः
स मा रोहैः सामित्यै रोहयाति ॥
सर्वाष् टीकाः ...{Loading}...
०४ रोहितो यज्ञं व्य्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो यज्ञं व्य् अदधाद् विश्वकर्मणे
तस्मात् तेजांस्य् उप मेमान्य् आगुः ।
वोचयं ते नाभिं भुवनस्याधि मज्मनि ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो यज्ञं व्य् अदधाद् विश्वकर्मणे
तस्मात् तेजांस्य् उप मेमान्य् आगुः ।
वोचयं ते नाभिं भुवनस्याधि मज्मनि ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ त्वा रुरोह
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा रुरोह बृहत्य् उत पङ्क्तिर्
आ ककुद् वर्चसा विश्ववेदः ।
आ त्वा रुरोहोष्णिहाक्षरं वषट्कार
आ त्वा रुरोह रोहितो रेतसा सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वा रुरोह बृहत्य् उत पङ्क्तिर्
आ ककुद् वर्चसा विश्ववेदः ।
आ त्वा रुरोहोष्णिहाक्षरं वषट्कार
आ त्वा रुरोह रोहितो रेतसा सह ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयं वस्ते गर्भम्
विश्वास-प्रस्तुतिः ...{Loading}...
अयं वस्ते गर्भं पृथिव्या
दिवं वस्ते ऽयम् अन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टपः
स्वर् लोकान् सम् आनशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं वस्ते गर्भं पृथिव्या
दिवं वस्ते ऽयम् अन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टपः
स्वर् लोकान् सम् आनशे ॥
सर्वाष् टीकाः ...{Loading}...
०७ वाचस्पते पृथिवी नः
विश्वास-प्रस्तुतिः ...{Loading}...
वाचस्पते पृथिवी नः स्योना
स्योना योनिस् तल्पा सुशेवा । +++(Bhatt. (syonā) in brackets)+++
इहैव प्राणः सक्ये नो अस्तु
तं त्वा परमेष्ठिन् पर्य् अग्निर् वर्चसा दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाचस्पते पृथिवी नः स्योना
स्योना योनिस् तल्पा सुशेवा । +++(Bhatt. (syonā) in brackets)+++
इहैव प्राणः सक्ये नो अस्तु
तं त्वा परमेष्ठिन् पर्य् अग्निर् वर्चसा दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०८ वाचस्पत ऋतवः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
वाचस्पत ऋतवः पञ्च +++(Bhatt. vācaspate (without sandhi))+++
वैश्वकर्मणाः परि ये बभूवुः ।
(…) +++(see 7c)+++
(…) परि रोहितो वर्चसा दधातु ॥ +++(see 7d)+++
मूलम् ...{Loading}...
मूलम् (GR)
वाचस्पत ऋतवः पञ्च +++(Bhatt. vācaspate (without sandhi))+++
वैश्वकर्मणाः परि ये बभूवुः ।
(…) +++(see 7c)+++
(…) परि रोहितो वर्चसा दधातु ॥ +++(see 7d)+++
सर्वाष् टीकाः ...{Loading}...
०९ वाचस्पते सौमनसं मनश्
विश्वास-प्रस्तुतिः ...{Loading}...
वाचस्पते सौमनसं मनश् च
गोष्ठे नो गा रमय योनिषु प्रजाम् ।
इहैव प्राणः सख्ये नो अस्तु
तं त्वा परमेष्ठिन् पर्य् अहं वर्चसा दधामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाचस्पते सौमनसं मनश् च
गोष्ठे नो गा रमय योनिषु प्रजाम् ।
इहैव प्राणः सख्ये नो अस्तु
तं त्वा परमेष्ठिन् पर्य् अहं वर्चसा दधामि ॥
सर्वाष् टीकाः ...{Loading}...
१० परि त्वा धात्
विश्वास-प्रस्तुतिः ...{Loading}...
परि त्वा धात् सविता देवो अग्निर्
वर्चसा मित्रावरुणाव् अभि त्वा ।
सर्वा अरातीर् अपक्रामन्न् उदेहि-
-इदं राष्ट्रं कृणुहि सूनृतावत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि त्वा धात् सविता देवो अग्निर्
वर्चसा मित्रावरुणाव् अभि त्वा ।
सर्वा अरातीर् अपक्रामन्न् उदेहि-
-इदं राष्ट्रं कृणुहि सूनृतावत् ॥