सर्वाष् टीकाः ...{Loading}...
०१ उदेहि वाजिन् यो
विश्वास-प्रस्तुतिः ...{Loading}...
उदेहि वाजिन् यो ऽप्स्व् अन्तर्
इदं राष्ट्रं प्र विश सूनृतावत् ।
यो रोहितो विश्वम् इदं जजान
स त्वा राष्ट्राय सुभृतं पिपर्तु ॥ +++(Bhatt. piparttu)+++
मूलम् ...{Loading}...
मूलम् (GR)
उदेहि वाजिन् यो ऽप्स्व् अन्तर्
इदं राष्ट्रं प्र विश सूनृतावत् ।
यो रोहितो विश्वम् इदं जजान
स त्वा राष्ट्राय सुभृतं पिपर्तु ॥ +++(Bhatt. piparttu)+++
सर्वाष् टीकाः ...{Loading}...
०२ उद् वाज आगन्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् वाज आगन् यो ऽप्स्व् अन्तर्
विश आ रोह त्वद्योनयो याः ।
सोमं दधानो ऽप ओषधीर् गाश्
चतुष्पदो द्विपद आ वेशयेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् वाज आगन् यो ऽप्स्व् अन्तर्
विश आ रोह त्वद्योनयो याः ।
सोमं दधानो ऽप ओषधीर् गाश्
चतुष्पदो द्विपद आ वेशयेह ॥
सर्वाष् टीकाः ...{Loading}...
०३ यूयम् उग्रा मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
यूयम् उग्रा मरुतः पृश्निमातर
इन्द्रेण युजा प्रमृणीत शत्रून् ।
आ वो रोहितः शृणवत् सुदानवस्
त्रिषप्ता मरुतः स्वादुसंमुदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यूयम् उग्रा मरुतः पृश्निमातर
इन्द्रेण युजा प्रमृणीत शत्रून् ।
आ वो रोहितः शृणवत् सुदानवस्
त्रिषप्ता मरुतः स्वादुसंमुदः ॥
सर्वाष् टीकाः ...{Loading}...
०४ रुहो रुरोह रोहित
विश्वास-प्रस्तुतिः ...{Loading}...
रुहो रुरोह रोहित आ रुरोह
गर्भो जनीनां जनुषाम् उपस्थम् ।
ताभिः संरब्धो अन्व् अविन्दत् षड् उर्वीर्
गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुहो रुरोह रोहित आ रुरोह
गर्भो जनीनां जनुषाम् उपस्थम् ।
ताभिः संरब्धो अन्व् अविन्दत् षड् उर्वीर्
गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ ते राष्ट्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते राष्ट्रम् इह रोहितो ऽहार्
मृधो व्य् आस्थद् अभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः
कामं दुहताम् इह शक्वरीभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते राष्ट्रम् इह रोहितो ऽहार्
मृधो व्य् आस्थद् अभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः
कामं दुहताम् इह शक्वरीभिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ रोहितो द्यावापृथिवी जजान
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो द्यावापृथिवी जजान
तं तन्तुं परमेष्ठी ततान ।
तत्र शिश्रिये ऽज एकपाद्
अदृंहद् द्यावापृथिवी बलेन ॥ +++(Bhatt. adṛṃha(d))+++
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो द्यावापृथिवी जजान
तं तन्तुं परमेष्ठी ततान ।
तत्र शिश्रिये ऽज एकपाद्
अदृंहद् द्यावापृथिवी बलेन ॥ +++(Bhatt. adṛṃha(d))+++
सर्वाष् टीकाः ...{Loading}...
०७ रोहितो द्यावापृथिवी अदृंहत्
विश्वास-प्रस्तुतिः ...{Loading}...
रोहितो द्यावापृथिवी अदृंहत्
तेन स्व स्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजंसि
तेन देवा अमृतम् अन्व् अविन्दन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहितो द्यावापृथिवी अदृंहत्
तेन स्व स्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजंसि
तेन देवा अमृतम् अन्व् अविन्दन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ वि रोहितो अमृशद्
विश्वास-प्रस्तुतिः ...{Loading}...
वि रोहितो अमृशद् विश्वरूपं
समाकृण्वानः प्ररुहो रुहश् च ।
दिवं रूढ्वा महता महिम्ना
सं ते राष्ट्रम् अनक्तु पयसा घृतेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि रोहितो अमृशद् विश्वरूपं
समाकृण्वानः प्ररुहो रुहश् च ।
दिवं रूढ्वा महता महिम्ना
सं ते राष्ट्रम् अनक्तु पयसा घृतेन ॥
सर्वाष् टीकाः ...{Loading}...
०९ यास् ते रुहः
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते रुहः प्ररुहो यास् त आरुहो
याभिर् आपृणासि दिवम् अन्तरिक्षम् ।
तासां ब्रह्मणा पयसा वावृधानो
विशि राष्ट्रे जागृहि रोहितस्य ॥ +++(Bhatt. visi (⟨ viśi))+++
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते रुहः प्ररुहो यास् त आरुहो
याभिर् आपृणासि दिवम् अन्तरिक्षम् ।
तासां ब्रह्मणा पयसा वावृधानो
विशि राष्ट्रे जागृहि रोहितस्य ॥ +++(Bhatt. visi (⟨ viśi))+++
सर्वाष् टीकाः ...{Loading}...
१० यास् ते विशस्
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते विशस् तपसः संबभूवुर्
वत्सं गायत्रीम् अनु ता इहागुः ।
तास् त्वा विशन्तु मनसा शिवेन +++(Bhatt. tās tā)+++
संमाता वत्सो अभ्य् एति रोहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते विशस् तपसः संबभूवुर्
वत्सं गायत्रीम् अनु ता इहागुः ।
तास् त्वा विशन्तु मनसा शिवेन +++(Bhatt. tās tā)+++
संमाता वत्सो अभ्य् एति रोहितः ॥