०१४

सर्वाष् टीकाः ...{Loading}...

०१ अमो ऽहम् अस्मि

विश्वास-प्रस्तुतिः ...{Loading}...

अमो ऽहम् अस्मि सा त्वं
द्यौर् अहं पृथिवी त्वम् ।
मनो ऽहम् अस्मि वाक् त्वं
ताव् इह सं भवाव
प्रजाम् आ जनयावहै ॥

०२ जनीयन्ति नो अग्रवः

विश्वास-प्रस्तुतिः ...{Loading}...

जनीयन्ति नो अग्रवः
पुत्रीयन्ति सुदानवः ।
अरिष्टासः सचेमहि
बृहते वाजसातये ॥

०३ ये पितरो वधूदर्शा

विश्वास-प्रस्तुतिः ...{Loading}...

ये पितरो वधूदर्शा
इमं वहतुम् आगमन् । (Bhatt. āgamaṃ (⟨ gaman))
ते अस्यै वध्वै संपत्न्यै
प्रजावच् छर्म यच्छन्तु ॥

०४ येदं पूर्वागन् रशनायमाना

विश्वास-प्रस्तुतिः ...{Loading}...

येदं पूर्वागन् रशनायमाना
प्रजाम् अस्यै द्रविणं चेह दत्त्वा । (Bhatt. datvā)
तां वहन्त्व् अगतस्याभि पन्थां
विराड् इयं सुप्रजा अत्य् अजैषीत् ॥

०५ प्र बुध्यस्व सुबुधा

विश्वास-प्रस्तुतिः ...{Loading}...

प्र बुध्यस्व सुबुधा बुध्यमाना
दीर्घायुत्वाय शतशारदाय ।
गृहान् प्रेहि सुमनस्यमाना
दीर्घं त आयुः सविता कृणोतु ॥

०६ वि ते मुञ्चामि

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते मुञ्चामि रशनां वि रश्मीन्
वि योक्त्राणि परिचर्तनानि च ।
अरिष्टास्मिन् ज्योतिषि
शिवा गृहपतौ भव ॥

०७ स्योना भव श्वशुरेभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

स्योना भव श्वशुरेभ्यः
स्योना पत्ये गृहेभ्यः ।
स्योनास्यै सर्वस्यै विशे
स्योना पुष्टायैषां भव ॥