सर्वाष् टीकाः ...{Loading}...
०१ यत् ते प्रजायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते प्रजायां पशुषु
यद् वा गृहेषु निष्ठितम्
अघकृद्भिर् अघं कृतम् ।
अग्निष् ट्वा तस्माद् एनसः
सविता च प्र मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते प्रजायां पशुषु
यद् वा गृहेषु निष्ठितम्
अघकृद्भिर् अघं कृतम् ।
अग्निष् ट्वा तस्माद् एनसः
सविता च प्र मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इयं नार्य् उप
विश्वास-प्रस्तुतिः ...{Loading}...
इयं नार्य् उप ब्रूते
पूल्पान्य् आवपन्तिका ।
दीर्घायुर् अस्तु मे पतिर्
एधन्तां पितरो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं नार्य् उप ब्रूते
पूल्पान्य् आवपन्तिका ।
दीर्घायुर् अस्तु मे पतिर्
एधन्तां पितरो मम ॥
सर्वाष् टीकाः ...{Loading}...
०३ इहेमाव् इन्द्र सम्
विश्वास-प्रस्तुतिः ...{Loading}...
इहेमाव् इन्द्र सं नुद
चक्रवाकेव दम्पती ।
प्रजावन्तौ स्वस्तकौ
दीर्घम् आयुर् व्य् अश्नुताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहेमाव् इन्द्र सं नुद
चक्रवाकेव दम्पती ।
प्रजावन्तौ स्वस्तकौ
दीर्घम् आयुर् व्य् अश्नुताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् आसन्द्याम् उपधाने
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आसन्द्याम् उपधाने (Bhatt. āsandhyā(⟨ ndyā*)m)
यद् वोपवासने कृतम् ।
विवाहे कृत्यां यां चक्रुर्
आस्नाने तां नि दध्मसि ॥ (Bhatt. taṃ)
मूलम् ...{Loading}...
मूलम् (GR)
यद् आसन्द्याम् उपधाने (Bhatt. āsandhyā(⟨ ndyā*)m)
यद् वोपवासने कृतम् ।
विवाहे कृत्यां यां चक्रुर्
आस्नाने तां नि दध्मसि ॥ (Bhatt. taṃ)
सर्वाष् टीकाः ...{Loading}...
०५ यद् दुष्कृतं यच्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दुष्कृतं यच् छमलं
विवाहे वहतौ च यत् ।
तत् संभलस्य कम्बले
मृज्महे दुरितं वयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् दुष्कृतं यच् छमलं
विवाहे वहतौ च यत् ।
तत् संभलस्य कम्बले
मृज्महे दुरितं वयम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ सम्भले मलं सादयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
संभले मलं सादयित्वा
कम्बले दुरितं वयम् ।
अभूम यज्ञियाः शुद्धाः
प्र ण आयूंषि तारिषन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
संभले मलं सादयित्वा
कम्बले दुरितं वयम् ।
अभूम यज्ञियाः शुद्धाः
प्र ण आयूंषि तारिषन् ॥
सर्वाष् टीकाः ...{Loading}...
०७ या मे प्रियतमा
विश्वास-प्रस्तुतिः ...{Loading}...
या मे प्रियतमा तनूः
सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते
नीविं कृणुष्व मा वयं रिशाम ॥
मूलम् ...{Loading}...
मूलम् (GR)
या मे प्रियतमा तनूः
सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते
नीविं कृणुष्व मा वयं रिशाम ॥
सर्वाष् टीकाः ...{Loading}...
०८ कृत्रिमः कङ्कतः शतदन्
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्रिमः कङ्कतः शतदन् य एषः ।
अपास्याः केश्यं मलम्
अप शीर्षण्यं लिखात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृत्रिमः कङ्कतः शतदन् य एषः ।
अपास्याः केश्यं मलम्
अप शीर्षण्यं लिखात् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अङ्गादङ्गाद् यूयम् अस्या
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गादङ्गाद् यूयम् अस्या
अप यक्ष्मं नि धत्तन । (Bhatt. (a)pa)
तन् मा प्रापत् पृथिवीं मोत देवान्
दिवं मा प्रापन् मोर्व् अन्तरिक्षम् ।
अपो मा प्रापन् मलम् एतद् अग्ने
यमं मा प्रापत् पितॄंश् च सर्वान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गादङ्गाद् यूयम् अस्या
अप यक्ष्मं नि धत्तन । (Bhatt. (a)pa)
तन् मा प्रापत् पृथिवीं मोत देवान्
दिवं मा प्रापन् मोर्व् अन्तरिक्षम् ।
अपो मा प्रापन् मलम् एतद् अग्ने
यमं मा प्रापत् पितॄंश् च सर्वान् ॥
सर्वाष् टीकाः ...{Loading}...
१० सं त्वा नह्यामि
विश्वास-प्रस्तुतिः ...{Loading}...
सं त्वा नह्यामि पयसा पृथिव्याः
सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन
सा संनद्धा सनुहि वाजम् एमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं त्वा नह्यामि पयसा पृथिव्याः
सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन
सा संनद्धा सनुहि वाजम् एमम् ॥