०१२

सर्वाष् टीकाः ...{Loading}...

०१ उशतीः कन्यला इमाः

विश्वास-प्रस्तुतिः ...{Loading}...

उशतीः कन्यला इमाः
पितृलोकात् पतिं यतीः ।
अव दीक्षाम् असृक्षत स्वाहा ॥

०२ बृहस्पतिनावसृष्टां विश्वे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥

०३ बृहस्पतिनावसृष्टां विश्वे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥

०४ बृहस्पतिनावसृष्टां विश्वे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥

०५ बृहस्पतिनावसृष्टां विश्वे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥

०६ बृहस्पतिनावसृष्टां विश्वे देवा

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिनावसृष्टां
विश्वे देवा अधारयन् ।
भगो गोषु प्रविष्टं
यत् तेनेमां सं सृजामसि ॥

०७ यद् असौ दुहिता

विश्वास-प्रस्तुतिः ...{Loading}...

यद् असौ दुहिता तव
विकेश्य् अरुदद् बहु
रोदेन कृण्वत्य् अघम् ।
अग्निष् ट्वा तस्माद् एनसः
सविता च प्र मुञ्चताम् ॥

०८ यद् अमी केशिनो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अमी केशिनो जना
गृहे ते समनर्तिषू
रोदेन कृण्वन्तो ऽघम् ।
(…) ॥ (see 7de)

०९ यज् जामयो यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यज् जामयो यद् युवतयो
गृहे ते समनर्तिषू
रोदेन कृण्वतीर् अघम् ।
(…) ॥ (see 7de)

१० यद् इमौ दम्पती

विश्वास-प्रस्तुतिः ...{Loading}...

यद् इमौ दम्पती उभौ
विवाहे अघम् आरतू
रोदेन कृण्वन्ताव् अघम् ।
(…) ॥ (see 7de)