सर्वाष् टीकाः ...{Loading}...
०१ यं नो ददुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यं नो ददुर् ब्रह्मभागं वधूयोर्
वासो वध्वश् च वस्त्रम् ।
युवं ब्रह्मणे ऽनुमन्यमानौ
बृहस्पते साकम् इन्द्रश् च दत्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं नो ददुर् ब्रह्मभागं वधूयोर्
वासो वध्वश् च वस्त्रम् ।
युवं ब्रह्मणे ऽनुमन्यमानौ
बृहस्पते साकम् इन्द्रश् च दत्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवैर् दत्तं वनुना
विश्वास-प्रस्तुतिः ...{Loading}...
देवैर् दत्तं वनुना साकम् एतद्
वाधूयं वध्वो वासो अस्याः ।
यो ब्रह्मणे चिकितुषे ददाति
स इद् रक्षांसि तल्प्यानि हन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवैर् दत्तं वनुना साकम् एतद्
वाधूयं वध्वो वासो अस्याः ।
यो ब्रह्मणे चिकितुषे ददाति
स इद् रक्षांसि तल्प्यानि हन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ स्योनाद् योनेर् अधि
विश्वास-प्रस्तुतिः ...{Loading}...
स्योनाद् योनेर् अधि बुध्यमानौ
हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो
जीवा उषसो विभातीः ॥ +++(Bhatt. vibhātī(ḥ))+++
मूलम् ...{Loading}...
मूलम् (GR)
स्योनाद् योनेर् अधि बुध्यमानौ
हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो
जीवा उषसो विभातीः ॥ +++(Bhatt. vibhātī(ḥ))+++
सर्वाष् टीकाः ...{Loading}...
०४ नवं वसानः सुरभिः
विश्वास-प्रस्तुतिः ...{Loading}...
नवं वसानः सुरभिः सुवासा
उदागां जीव उषसो विभातीः । +++(Bhatt. vibhātī(ḥ))+++
आण्डात् पतत्रीवामुक्षि
विश्वस्माद् एनसस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नवं वसानः सुरभिः सुवासा
उदागां जीव उषसो विभातीः । +++(Bhatt. vibhātī(ḥ))+++
आण्डात् पतत्रीवामुक्षि
विश्वस्माद् एनसस् परि ॥
सर्वाष् टीकाः ...{Loading}...
०५ शुम्भनी द्यावापृथिवी अन्तिसुम्ने
विश्वास-प्रस्तुतिः ...{Loading}...
शुम्भनी द्यावापृथिवी
अन्तिसुम्ने महिव्रते ।
आपः सप्त स्रवन्तीस्
ता नो मुञ्चन्त्व् अंहसः ॥ +++(Bhatt. ahasaḥ)+++
मूलम् ...{Loading}...
मूलम् (GR)
शुम्भनी द्यावापृथिवी
अन्तिसुम्ने महिव्रते ।
आपः सप्त स्रवन्तीस्
ता नो मुञ्चन्त्व् अंहसः ॥ +++(Bhatt. ahasaḥ)+++
सर्वाष् टीकाः ...{Loading}...
०६ सूर्यायै देवेभ्यो मित्राय
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यायै देवेभ्यो
मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्
तेभ्यो ऽहम् अकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यायै देवेभ्यो
मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्
तेभ्यो ऽहम् अकरं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ य ऋते चिद्
विश्वास-प्रस्तुतिः ...{Loading}...
य ऋते चिद् अभिश्रिषः
पुरा जत्रुभ्य आतृदः ।
संधाता संधिं मघवा
पुरूवसुर् निष्कर्ता विहृतं पुनः ॥ +++(Bhatt. purūvasuni(⟨ rni)ṣkartā)+++
मूलम् ...{Loading}...
मूलम् (GR)
य ऋते चिद् अभिश्रिषः
पुरा जत्रुभ्य आतृदः ।
संधाता संधिं मघवा
पुरूवसुर् निष्कर्ता विहृतं पुनः ॥ +++(Bhatt. purūvasuni(⟨ rni)ṣkartā)+++
सर्वाष् टीकाः ...{Loading}...
०८ अपास्मत् तम उच्छतु
विश्वास-प्रस्तुतिः ...{Loading}...
अपास्मत् तम उच्छतु +++(Bhatt. apāsma(t))+++
नीलं पिशङ्गम् उत लोहितं यत् ।
निर्दहनीं पृषातकीम्
अस्मिन् तां स्थाणाव् अध्य् आ सृजामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपास्मत् तम उच्छतु +++(Bhatt. apāsma(t))+++
नीलं पिशङ्गम् उत लोहितं यत् ।
निर्दहनीं पृषातकीम्
अस्मिन् तां स्थाणाव् अध्य् आ सृजामि ॥
सर्वाष् टीकाः ...{Loading}...
०९ यावतीः कृत्या उपवासने
विश्वास-प्रस्तुतिः ...{Loading}...
यावतीः कृत्या उपवासने
यावन्तो राज्ञो वरुणस्य पाशाः । +++(Bhatt. pāśāt)+++
व्यृद्धयो या असमृद्धयश् च-
-अस्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावतीः कृत्या उपवासने
यावन्तो राज्ञो वरुणस्य पाशाः । +++(Bhatt. pāśāt)+++
व्यृद्धयो या असमृद्धयश् च-
-अस्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः ॥
सर्वाष् टीकाः ...{Loading}...
१० ये अन्ता यावतीः
विश्वास-प्रस्तुतिः ...{Loading}...
ये अन्ता यावतीः सिच
ओतवो ये च तन्तवः ।
वासो यत् पत्नीभिर् उतं
तन् मा स्योनम् उप स्पृषात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अन्ता यावतीः सिच
ओतवो ये च तन्तवः ।
वासो यत् पत्नीभिर् उतं
तन् मा स्योनम् उप स्पृषात् ॥