००८

सर्वाष् टीकाः ...{Loading}...

०१ ये वध्वश् चन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये वध्वश् चन्द्रं वहतुं
यक्ष्मा यन्ति जनाꣳ अनु ।
पुनस् तान् यज्ञिया देवा
नयन्तु यत आगताः ॥

०२ मा विदन् पर्यायिणो

विश्वास-प्रस्तुतिः ...{Loading}...

मा विदन् पर्यायिणो
य आसीदन्ति दम्पती ।
सुगेन दुर्गम् अतीताम्
अप द्रान्त्व् अरातयः ॥

०३ सं काशयामि वहतुम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं काशयामि वहतुं ब्रह्मणा गृहैर्
अघोरेण चक्षुषा मित्र्येण । (Bhatt. mitrye(⟨ triye*)ṇa)
पर्याणद्धं विश्वरूपं यद् अस्मिन्
स्योनं पतिभ्यः सविता कृणोतु तत् ॥

०४ शिवा नारीयम् अस्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवा नारीयम् अस्तम् आगन्न्
इमं धाता लोकम् अस्यै विवेद ।
ताम् अर्यमा भगो अश्विनोभा
प्रजापतिः प्रजया वर्धयन्तु ॥

०५ आत्मन्वत्य् उर्वरा नरीयम्

विश्वास-प्रस्तुतिः ...{Loading}...

आत्मन्वत्य् उर्वरा नरीयम् आगन्
तस्यां नरो वपत बीजम् अस्याम् ।
सा वः प्रजां जनयाद् वक्षणाभ्यो
बिभ्रती दुध्रम् ऋषभस्य रेतः ॥

०६ प्रति तिष्ठ विराड्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति तिष्ठ विराड् इव
विष्णुर् इवेह सरस्वति ।
दूर्वेवेन्द्र प्र जायतां
भगस्य सुमताव् असत् ॥

०७ उद् वाम् ऊर्मिः

विश्वास-प्रस्तुतिः ...{Loading}...

उद् वाम् ऊर्मिः शम्ये हन्त्व्
आपो योक्त्राणि मुञ्चन्तु ।
मादुष्कृतौ व्येनसा-
-अघ्न्यौ शूनम् आरताम् ॥

०८ अघोरचक्षुर् अपतिघ्नी स्योना

विश्वास-प्रस्तुतिः ...{Loading}...

अघोरचक्षुर् अपतिघ्नी स्योना
शग्मा सुशेवा सुयमा गृहेषु ।
प्रजावती वीरसूर् देवृकामा-
-इमम् अग्निं गार्हपत्यं सर्पय ॥ (Bhatt. saparya)

०९ अदेवृघ्न्य् अपतिघ्नीहैधि स्योना

विश्वास-प्रस्तुतिः ...{Loading}...

अदेवृघ्न्य् अपतिघ्नीहैधि
स्योना पशुभ्यः सुमनाः सुवीरा ।
वीरसूर् देवृकामा स्योना
सं त्वैधिषीमहि सुमनस्यमाना ॥

१० उत् तिष्ठातः किम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठातः किम् इच्छन्तीदम् आगा
अहं त्वेडे अभिभूः स्वाद् गृहात् ।
शून्यैशी निरृते याजगन्थ-
-उत्तिष्ठाराते प्र पत माति रंस्थाः ॥