सर्वाष् टीकाः ...{Loading}...
०१ तुभ्यम् अग्रे पर्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यम् अग्रे पर्य् अवहन्
सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा
अग्ने प्रजया सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
तुभ्यम् अग्रे पर्य् अवहन्
सूर्यां वहतुना सह ।
पुनः पतिभ्यो जायां दा
अग्ने प्रजया सह ॥
सर्वाष् टीकाः ...{Loading}...
०२ पुनः पत्नीम् अग्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनः पत्नीम् अग्निर् अदाद्
आयुषा सह वर्चसा ।
दीर्घायुर् अस्या यः पतिर्
जीवाति शरदः शतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनः पत्नीम् अग्निर् अदाद्
आयुषा सह वर्चसा ।
दीर्घायुर् अस्या यः पतिर्
जीवाति शरदः शतम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ सोमस्य जाया प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमस्य जाया प्रथमं
गन्धर्वस् ते ऽपरः पतिः ।
तृतीयो अग्निष् टे पतिस्
तुरीयस् ते मनुष्यजाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमस्य जाया प्रथमं
गन्धर्वस् ते ऽपरः पतिः ।
तृतीयो अग्निष् टे पतिस्
तुरीयस् ते मनुष्यजाः ॥
सर्वाष् टीकाः ...{Loading}...
०४ सोमो ददद् गन्धर्वाय
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो ददद् गन्धर्वाय
गन्धर्वो ददद् अग्नये ।
रयिं च पुत्रांश् चादाद्
अग्निर् मह्यम् अथो इमाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो ददद् गन्धर्वाय
गन्धर्वो ददद् अग्नये ।
रयिं च पुत्रांश् चादाद्
अग्निर् मह्यम् अथो इमाम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ वाम् अगन्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वाम् अगन् सुमतिर् वाजिनीवसू
न्य् अश्विना हृत्सु कामा अरंसत ।
अभूतं गोपा मिथुना शुभस्पती
प्रिया अर्यम्णो दुर्याँ अशीमहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वाम् अगन् सुमतिर् वाजिनीवसू
न्य् अश्विना हृत्सु कामा अरंसत ।
अभूतं गोपा मिथुना शुभस्पती
प्रिया अर्यम्णो दुर्याँ अशीमहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ सा मन्दसाना मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
सा मन्दसाना मनसा शिवेन
रयिं धेहि सर्ववीरं वचस्यम् ।
सुगं तीर्थं सुप्रपाणं शुभस्पती
स्थाणुं पथिष्ठाम् अप दुर्मतिं हतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सा मन्दसाना मनसा शिवेन
रयिं धेहि सर्ववीरं वचस्यम् ।
सुगं तीर्थं सुप्रपाणं शुभस्पती
स्थाणुं पथिष्ठाम् अप दुर्मतिं हतम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अप रक्षांस्य् अप
विश्वास-प्रस्तुतिः ...{Loading}...
अप रक्षांस्य् अप दुर्मतिं हतं
शुभस्पती वहतोर् यातो अस्मात् ।
पुरोगवो जयन् रक्षांस्य् अग्ने
क्षेत्रवित् पूर्वो वि मृधो नुदस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप रक्षांस्य् अप दुर्मतिं हतं
शुभस्पती वहतोर् यातो अस्मात् ।
पुरोगवो जयन् रक्षांस्य् अग्ने
क्षेत्रवित् पूर्वो वि मृधो नुदस्व ॥
सर्वाष् टीकाः ...{Loading}...
०८ या ओषधयो या
विश्वास-प्रस्तुतिः ...{Loading}...
या ओषधयो या नद्यो
यानि क्षेत्राणि या वना ।
ते त्वा वधु प्रजावतीं
पत्ये रक्षन्तु रक्षसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ओषधयो या नद्यो
यानि क्षेत्राणि या वना ।
ते त्वा वधु प्रजावतीं
पत्ये रक्षन्तु रक्षसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ एमं पन्थाम् अगन्म
विश्वास-प्रस्तुतिः ...{Loading}...
एमं पन्थाम् अगन्म
सुगं स्वस्तिवाहनम् ।
यत्र वीरो न रिष्यत्य्
अन्येषां विन्दते वसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
एमं पन्थाम् अगन्म
सुगं स्वस्तिवाहनम् ।
यत्र वीरो न रिष्यत्य्
अन्येषां विन्दते वसु ॥
सर्वाष् टीकाः ...{Loading}...
१० इदं सु मे
विश्वास-प्रस्तुतिः ...{Loading}...
इदं सु मे नरः शृणुत
ययाशिषा दम्पती वामम् अश्नुतः ।
ये गन्धर्वा अप्सरसश् च देवीर् +++(Bhatt. aspara-, misprint)+++
एषु वानस्पत्येष्व् अद्याधि तस्थुः ।
स्योनास् ते अस्यै वध्वै भवन्तु
मा हिंसिषुर् वहतुम् उह्यमानम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं सु मे नरः शृणुत
ययाशिषा दम्पती वामम् अश्नुतः ।
ये गन्धर्वा अप्सरसश् च देवीर् +++(Bhatt. aspara-, misprint)+++
एषु वानस्पत्येष्व् अद्याधि तस्थुः ।
स्योनास् ते अस्यै वध्वै भवन्तु
मा हिंसिषुर् वहतुम् उह्यमानम् ॥