००६

सर्वाष् टीकाः ...{Loading}...

०१ गृहास् त्वा प्रोर्णुवन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

गृहास् त्वा प्रोर्णुवन्तु वर्चसा भगेन
ज्योतिष्मद् इदं प्रति मुञ्चस्व वपुः ।
उषा इव सूर्यस्य संदृशि ॥

०२ इन्द्राग्नी द्यावापृथिवी ह

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी द्यावापृथिवी ह पूषा
मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर् मरुतो ब्रह्म सोम
इमां नारीं प्रजया वर्धयन्तु ॥

०३ बृहस्पतिः प्रथमः सूर्यायाः

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिः प्रथमः सूर्यायाः
शीर्षे केषाꣳ अकल्पयत् ।
तेनेमाम् अश्विना नारीं
पत्या सं शोभयामसि ॥

०४ इदं तद् रूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं तद् रूपं यद् अवस्त योषा
जायां जिज्ञासे मनसा चरन्तीम् ।
ताम् अन्व् अर्तिष्ये सखिभिर् नवग्वैः (Bhatt. arttiṣye)
क इमं विद्वान् वि चचर्त पाशम् ॥

०५ अहं वि ष्यामि

विश्वास-प्रस्तुतिः ...{Loading}...

अहं वि ष्यामि मयि रूपम् अस्या
वेदद् इत् पश्यन् मनसः कुलायम् ।
न स्तेयम् अद्मि मनसोद् अमुच्ये
स्वयं श्रथ्नानो वरुणस्य पाशम् ॥

०६ इमं वि ष्यामि

विश्वास-प्रस्तुतिः ...{Loading}...

इमं वि ष्यामि वरुणस्य पाशं
येन त्वाबध्नात् सविता सुशेवः ।
उरुं लोकं सुगम् अत्र पन्थां
कृणोमि तुभ्यं सहपत्न्यै वधु ॥

०७ उद् यच्छध्वम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

उद् यच्छध्वम् अप रक्षो हनाथ-
-इमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिम् अस्यै विवेद
भगो राजा पुर एतु प्रजानन् ॥

०८ भगस् ततक्ष चतुरः

विश्वास-प्रस्तुतिः ...{Loading}...

भगस् ततक्ष चतुरः पदो
भगस् ततक्ष चत्वार्य् उष्पलानि ।
त्वष्टा पिपेश मध्यतो वर्ध्रान्
सा नो अस्तु सुमङ्गली ॥

०९ एनाज्येन हविषा प्रजायै

विश्वास-प्रस्तुतिः ...{Loading}...

एनाज्येन हविषा
प्रजायै च वरेण्यम् ।
पशुभ्यश् चक्षुषे च कं
सम् अग्निं सम् इधीमहि ॥

१० सुकिंशुकं वहतुं विश्वरूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

सुकिंशुकं वहतुं विश्वरूपं
हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं
स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥

११ मा हिंसिष्टां कुमार्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा हिंसिष्टां कुमार्यं
स्थूने देवकृते पथि ।
शालाया देव्या द्वारं
स्योनं कृण्मो वधूपथम् ॥

१२ ब्रह्मापरं युज्यतां ब्रह्म

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मापरं युज्यतां ब्रह्म पूर्वं
ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
अनाव्याधां देवपुरां प्रपद्य
शिवा स्योना पतिलोके वि राज ॥