००५

सर्वाष् टीकाः ...{Loading}...

०१ सम्राज्ञ्य् एधि श्वशुरेषु

विश्वास-प्रस्तुतिः ...{Loading}...

सम्राज्ञ्य् एधि श्वशुरेषु
सम्राज्ञ्य् उत श्वश्रुवाम् ।
ननान्दुः सम्राज्ञ्य् एधि
सम्राज्ञ्य् उत देवृषु ॥

०२ या अकृन्तन्न् अवयन्

विश्वास-प्रस्तुतिः ...{Loading}...

या अकृन्तन्न् अवयन् याश् च तत्निरे +++(Bhatt. avayaṃ)+++
या देवीर् अन्ताँ अभितो ऽददन्त । +++(Bhatt. antāṃ)+++
तास् त्वा जरसे सं व्ययन्त्व्
आयुष्मतीदं परि धत्स्व वासः ॥

०३ जीवं रुदन्ति वि

विश्वास-प्रस्तुतिः ...{Loading}...

जीवं रुदन्ति वि नयन्त्य् अध्वरं
दीर्घाम् अनु प्रसितिं दीधियुर् नरः ।
वामं पितृभ्यो य इदं समीरिरे
मयः पतिभ्यो जनये परिष्वजे ॥

०४ ध्रुवं स्योनं प्रजायै

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवं स्योनं प्रजायै ते धारयाम्य्
अश्मानं देव्याः पृथिव्या उपस्थे ।
तम् आ रोहानुमाद्या सुवीरा
दीर्घं त आयुः सविता कृणोतु ॥

०५ देवस् ते सविता

विश्वास-प्रस्तुतिः ...{Loading}...

देवस् ते सविता हस्तं गृह्णातु
सोमो राजा सुप्रजसं कृणोतु ।
अग्निः सुभगां जातवेदाः
पत्या पत्नीं जरदष्टिं कृणोतु ॥

०६ गृह्णामि ते सौभगत्वाय

विश्वास-प्रस्तुतिः ...{Loading}...

गृह्णामि ते सौभगत्वाय हस्तं
मया पत्या जरदष्टिर् यथासः ।
भगो अर्यमा सविता पुरन्धिर्
मह्यं त्वादुर् गार्हपत्याय देवाः ॥

०७ येनाग्निर् अस्या भूम्या

विश्वास-प्रस्तुतिः ...{Loading}...

येनाग्निर् अस्या भूम्या
हस्तं जग्राह दक्षिणम् ।
तेन गृह्णामि ते हस्तं
मा व्यथिष्ठा मया सह ॥

०८ धाता ते हस्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

धाता ते हस्तम् अग्रहीत्
सविता हस्तम् अग्रहीत् ।
भगस् ते हस्तम् अग्रहीद्
अर्यमा हस्तम् अग्रहीत् ।
पत्नी त्वम् असि धर्मणा-
-अहं गृहपतिस् तव ॥

०९ ममेयम् अस्तु पोष्या

विश्वास-प्रस्तुतिः ...{Loading}...

ममेयम् अस्तु पोष्या
मह्यं त्वादाद् बृहस्पतिः ।
मया पत्या प्रजावती
सं जीव शरदः शतम् ॥

१० त्वष्टा वासो व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा वासो व्य् अदधाच् छुभे कं
बृहस्पतेः प्रशिषा कवीनाम् ।
तेनेमां नारीं सविता भगश् च
सूर्याम् इव परि धत्तां प्रजायै ॥