००४

सर्वाष् टीकाः ...{Loading}...

०१ इहेद् असाथ न

विश्वास-प्रस्तुतिः ...{Loading}...

इहेद् असाथ न परो गमाथ-
-इमं गावः प्रजया वर्धयाथ ।
शुभं यतीर् उस्रियाः सोमवर्चसो
विश्वे देवाः क्रन्न् इह वो मनांसि ॥

०२ इमं गावः प्रजया

विश्वास-प्रस्तुतिः ...{Loading}...

इमं गावः प्रजया सं विशध्वम्
अयं देवानां न मिनाति भागम् ।
अस्मै वः पूषा मरुतश् च सर्वे
अस्मै वो धाता सविता सुवाति ॥

०३ अनृक्षरा ऋजवः सन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

अनृक्षरा ऋजवः सन्तु पन्थानो
येभिः सखायो यन्ति नो वरेयम् ।
सं भगेन सम् अर्यम्णा
सं धाता सृजतु वर्चसा नः ॥

०४ येन महानग्न्या जघनम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन महानग्न्या जघनम्
अश्विना येन वा सूरा ।
येनाक्षा अभ्यषिच्यन्त
तेनेमां वर्चसावतम् ॥

०५ यद् वर्चो अक्षेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वर्चो अक्षेषु
सूरायां च यद् आहितम् ।
यद् गोष्व् अश्विना वर्चस्
तेनेमां वर्चसावतम् ॥

०६ यो अनिध्मो दीदायाप्स्व्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अनिध्मो दीदायाप्स्व् अन्तर्
यं विप्रास ईडते अध्वरेषु ।
अपान् नपान् मधुमतीर् अपो दा
याभिर् इन्द्रो वावृधे वीर्यावान् ॥

०७ इदम् अहं रुशन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् अहं रुशन्तं ग्राभं
तानूदूषिम् अप नुदामि ।
यः शिचो भद्रो रोचानस्
तम् उद् अचामि ॥

०८ अस्यै हरन्तु स्तपनम्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्यै हरन्तु स्तपनं ब्राह्मणा
अवीरघ्नीर् उद् अचन्त्व् आपः ।
अर्यम्णो अग्निं पर्य् एतु क्षिप्रं
प्रतीक्षन्ते श्वशुरो देवरश् च ॥

०९ शं ते हिरण्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते हिरण्यं शम् उ सन्त्व् आपः
शं मेथिर् भवतु शं युगस्य तर्द्म ।
शं त आपः शतपवित्रा भवन्तु
शं पत्या तन्वं सं स्पृशस्व ॥

१० यथा सिन्धुर् नदीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सिन्धुर् नदीनां
साम्राज्यं सुषुवे वृषा ।
एवा त्वं सम्राज्ञ्य् एधि
पत्युर् अस्तं परेत्य ॥