००२

सर्वाष् टीकाः ...{Loading}...

०१ शुची ते चक्रे

विश्वास-प्रस्तुतिः ...{Loading}...

शुची ते चक्रे यात्या
व्यानो अक्ष आहतः ।
अनो मनस्मयं सूर्या-
-आरोहत् प्रयती पतिम् ॥

०२ सूर्याया वहतुः प्रागात्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्याया वहतुः प्रागात्
सविता यम् अवासृजत् ।
अघासु हन्यन्ते गावः
फल्गुनीषु व्य् उह्यते ॥

०३ यद् अश्विना पृच्छमानाव्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्विना पृच्छमानाव् अयातं
त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वाम् आसीत्
क्व देष्ट्राय तस्थथुः ॥

०४ यद् अयातं शुभस्पती

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अयातं शुभस्पती
वरेयं सूर्याम् उप ।
विश्वे देवा अनु तद् वाम् अजानन्
पुत्रः पितराव् अवृनीत पूषा ॥

०५ द्वे ते चक्रे

विश्वास-प्रस्तुतिः ...{Loading}...

द्वे ते चक्रे सूर्ये
ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा
तद् अद्धातय इद् विदुः ॥

०६ प्र त्वा मुञ्चामि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा मुञ्चामि वरुणस्य पाशाद्
येन त्वाबध्नात् सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके
स्योनं ते अस्तु सहपत्न्यै वधु ॥

०७ अर्यमणं यजामहे सुबन्धुम्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यमणं यजामहे
सुबन्धुं पतिवेदनम् ।
उर्वारुकम् इव बन्धनाद्
इतो मुञ्चन्तु मामुतः ॥

०८ प्रेतो मुञ्चन्तु मामुतः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेतो मुञ्चन्तु मामुतः
सुबद्धाम् अमुतस् करत् ।
यथेयम् इन्द्र मीढ्वः
सुपुत्रा सुभगासति ॥

०९ भगस् त्वेतो नयतु

विश्वास-प्रस्तुतिः ...{Loading}...

भगस् त्वेतो नयतु हस्तगृह्य-
-अश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो
वशिनी त्वं विदथम् आ वदासि ॥

१० इह प्रियं प्रजायै

विश्वास-प्रस्तुतिः ...{Loading}...

इह प्रियं प्रजायै ते सम् ऋध्यताम्
अस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्व-
-अथ जिर्विर् विदथम् आ वदासि ॥