००१

सर्वाष् टीकाः ...{Loading}...

०१ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता

विश्वास-प्रस्तुतिः ...{Loading}...

सत्येनोत्तभिता भूमिः
सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास् तिष्ठन्ति
दिवि सोमो अधि श्रितः ॥

०२ सोमेनादित्या बलिनः सोमेन

विश्वास-प्रस्तुतिः ...{Loading}...

सोमेनादित्या बलिनः
सोमेन पृथिवी मही ।
अतो नक्षत्रणाम् एषाम्
उपस्थे सोम आहितः ॥

०३ सोमं मन्यते पपिवान्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमं मन्यते पपिवान्
यत् संपिंषन्त्य् ओषधिम् ।
सोमं यं ब्रःमानो विदुर्
न तस्याश्नाति पार्थिवः ॥

०४ आच्छद्विधानैर् गुपितो बार्हतैः

विश्वास-प्रस्तुतिः ...{Loading}...

आच्छद्विधानैर् गुपितो
बार्हतैः सोम रक्षितः ।
ग्राव्णाम् इच् छृण्वन् तिष्ठसि
न ते अश्नाति पार्थिवः ॥

०५ चित्तिर् वावोपबर्हणं चक्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

चित्तिर् वावोपबर्हणं
चक्षुर् आवद् अभ्यञ्जनम् ।
द्यौर् भूमिः कोश आसीद्
यद् अयात् सूर्या पतिम् ॥

०६ रैभ्य् आसीद् अनुदेयी

विश्वास-प्रस्तुतिः ...{Loading}...

रैभ्य् आसीद् अनुदेयी
नाराशंसी न्योचनम् ।
सूर्याया भद्रम् इद् वासो
गाथयैति परिष्कृता ॥

०७ स्तोमा आसन् प्रतिधयः

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोमा आसन् प्रतिधयः
कुरीरं छन्द ओपशः । (opaśaḥ with ŚS; Bhatt. upaśaḥ)
सूर्याया अश्विना वरा-
-अग्निर् आसीत् पुरोगवः ॥

०८ सोमो वधूयुर् अभवद्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो वधूयुर् अभवद्
अश्विनास्ताम् उभा वरा ।
सूर्यां यत् पत्ये शंसन्तीं
मनसा सविताददात् ॥

०९ मनो अस्या अन

विश्वास-प्रस्तुतिः ...{Loading}...

मनो अस्या अन आसीद्
द्यौर् आसीद् उत छदिः ।
शुक्राव् अनड्वाहाव् आस्तां
यद् अयात् सूर्या पतिम् ॥

१० ऋक्सामाभ्याम् अभिहितौ गावौ

विश्वास-प्रस्तुतिः ...{Loading}...

ऋक्सामाभ्याम् अभिहितौ
गावौ ते सामनाव् ऐताम् ।
श्रोत्रे ते चक्रे आस्तां
दिवि पन्थाश् चराचरः ॥