सर्वाष् टीकाः ...{Loading}...
०१ एषा त्वचां पुरुषे
विश्वास-प्रस्तुतिः ...{Loading}...
एषा त्वचां पुरुषे सं बभूव-
-अनग्नाः सर्वे पशवो ये अन्ये । (Bhatt. -anagrāḥ, printing error)
क्षत्रेनात्मानं परि धापयेताम्
अमोतं वासो मुखम् ओदनस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
एषा त्वचां पुरुषे सं बभूव-
-अनग्नाः सर्वे पशवो ये अन्ये । (Bhatt. -anagrāḥ, printing error)
क्षत्रेनात्मानं परि धापयेताम्
अमोतं वासो मुखम् ओदनस्य ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् अक्षेषु वदसि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अक्षेषु वदसि यत् समित्यां
यद् वा धने अनृतं वित्तकाम्या ।
समानं तन्तुं सह संवसानौ
तस्मिन् सर्वं शमलं सादयाथः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अक्षेषु वदसि यत् समित्यां
यद् वा धने अनृतं वित्तकाम्या ।
समानं तन्तुं सह संवसानौ
तस्मिन् सर्वं शमलं सादयाथः ॥
सर्वाष् टीकाः ...{Loading}...
०३ वर्षं वनुष्वापि गच्छ
विश्वास-प्रस्तुतिः ...{Loading}...
वर्षं वनुष्वापि गच्छ देवांस्
त्वचो धूमं पर्य् उत् पातयासि ।
विश्वव्यचा विश्वकर्मा स्वर्गः
सयोनिर् लोकम् उप याह्य् एतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्षं वनुष्वापि गच्छ देवांस्
त्वचो धूमं पर्य् उत् पातयासि ।
विश्वव्यचा विश्वकर्मा स्वर्गः
सयोनिर् लोकम् उप याह्य् एतम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ तन्वः स्वर्गो बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
तन्वः स्वर्गो बहुधा वि चक्रे
यथा विद आत्मन्य् अन्यवर्णाः ।
अपाजैत् कृष्णां रुशतीं पुनानो
या लोहिनी तां ते अग्नौ जुहोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तन्वः स्वर्गो बहुधा वि चक्रे
यथा विद आत्मन्य् अन्यवर्णाः ।
अपाजैत् कृष्णां रुशतीं पुनानो
या लोहिनी तां ते अग्नौ जुहोमि ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्राच्यै दिशे अग्नये
विश्वास-प्रस्तुतिः ...{Loading}...
प्राच्यै दिशे अग्नये ऽधिपतये ऽसिताय रक्षित्र
आदित्यायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अधा पक्वेन सह सं भवेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राच्यै दिशे अग्नये ऽधिपतये ऽसिताय रक्षित्र
आदित्यायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अधा पक्वेन सह सं भवेम ॥
सर्वाष् टीकाः ...{Loading}...
०६ दक्षिणायै दिश इन्द्रायाधिपतये
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजे रक्षित्रे
वसुभ्य इषुमद्भ्य एतम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजे रक्षित्रे
वसुभ्य इषुमद्भ्य एतम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्रतीच्यै दिशे वरुणायाधिपतये
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे (Bhatt. pra(⟨ pṛ)dākave)
मित्रायेषुमत एतम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे (Bhatt. pra(⟨ pṛ)dākave)
मित्रायेषुमत एतम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ उदीच्यै दिशे सोमायाधिपतये
विश्वास-प्रस्तुतिः ...{Loading}...
उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे
वातायेषुमत एतम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे
वातायेषुमत एतम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ ध्रुवायै दिशे विष्णवे
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवायै दिशे विष्णवे ऽधिपतये कल्माषग्रीवाय रक्षित्रे
वीरुद्भ्य इषुमतीभ्य एतम् (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवायै दिशे विष्णवे ऽधिपतये कल्माषग्रीवाय रक्षित्रे
वीरुद्भ्य इषुमतीभ्य एतम् (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० ऊर्ध्वायै दिशे बृहस्पतये
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वायै दिशे बृहस्पतये ऽधिपतये श्वित्राय रक्षित्रे
अशनीभ्य इषुमतीभ्य एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अथा पक्वेन सह सं भवेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वायै दिशे बृहस्पतये ऽधिपतये श्वित्राय रक्षित्रे
अशनीभ्य इषुमतीभ्य एतं परि दध्मः ।
तं नो गोपायन्त्व् आस्माकम् ऐतोर् (Bhatt. tanno)
दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्व्
अथा पक्वेन सह सं भवेम ॥