सर्वाष् टीकाः ...{Loading}...
०१ वसोर् या धारा
विश्वास-प्रस्तुतिः ...{Loading}...
वसोर् या धारा मधुना समक्ता
घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां
शरत्सु निधिपा अभीच्छात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वसोर् या धारा मधुना समक्ता
घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास् ता अव रुन्धे स्वर्गः षष्ट्यां
शरत्सु निधिपा अभीच्छात् ॥
सर्वाष् टीकाः ...{Loading}...
०२ निधिं निधिपा अभ्य्
विश्वास-प्रस्तुतिः ...{Loading}...
निधिं निधिपा अभ्य् एनम् इच्छाद्
अनीश्वरा अभितः सन्त्व् अन्ये ।
अस्माभिर् दत्तो निहितः स्वर्गस्
त्रिभिः काण्डैस् त्रीन् स्वर्गान् अरुक्षत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
निधिं निधिपा अभ्य् एनम् इच्छाद्
अनीश्वरा अभितः सन्त्व् अन्ये ।
अस्माभिर् दत्तो निहितः स्वर्गस्
त्रिभिः काण्डैस् त्रीन् स्वर्गान् अरुक्षत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्नी रक्षस् तपतु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नी रक्षस् तपतु यद् विदेवं
क्रव्यात् पिशाच इह मा प्र पास्त ।
नुदाम एनम् अव रुध्मो अस्मद्
आदित्या नो अङ्गिरसः सचन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नी रक्षस् तपतु यद् विदेवं
क्रव्यात् पिशाच इह मा प्र पास्त ।
नुदाम एनम् अव रुध्मो अस्मद्
आदित्या नो अङ्गिरसः सचन्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आदित्येभ्यो अङ्गिरोभ्यो मध्व्
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं
घृतेन मिश्रं प्रति वेदयामः ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्य-
-एनं स्वर्गं सुकृताव् अपीतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्येभ्यो अङ्गिरोभ्यो मध्व् इदं
घृतेन मिश्रं प्रति वेदयामः ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्य-
-एनं स्वर्गं सुकृताव् अपीतम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ इदं काण्डम् उत्तमम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदं काण्डम् उत्तमं प्रापम् अस्य
यस्माल् लोकात् परमेष्ठी समाप ।
आ सिञ्च सर्पिर् घृतवत् समङ्ध्य्
एष भागो अङ्गिरसो नो अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं काण्डम् उत्तमं प्रापम् अस्य
यस्माल् लोकात् परमेष्ठी समाप ।
आ सिञ्च सर्पिर् घृतवत् समङ्ध्य्
एष भागो अङ्गिरसो नो अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०६ सत्याय च तपसे
विश्वास-प्रस्तुतिः ...{Loading}...
सत्याय च तपसे देवताभ्यो
निधिं शेवधिं परि दध्म एतम् ।
मा नो द्यूते ऽव गान् मा समित्यां +++(Bhatt. dyūteva)+++
मा स्मान्यस्मा उत् सृजता पुरा मत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्याय च तपसे देवताभ्यो
निधिं शेवधिं परि दध्म एतम् ।
मा नो द्यूते ऽव गान् मा समित्यां +++(Bhatt. dyūteva)+++
मा स्मान्यस्मा उत् सृजता पुरा मत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ न किल्बिषम् अत्र
विश्वास-प्रस्तुतिः ...{Loading}...
न किल्बिषम् अत्र नाधारो अस्ति
न यन् मित्रैः समममान एति ।
पक्तारं पक्वः पुनर् आ विशास्य्
अनूनं पात्रं निहितं नो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
न किल्बिषम् अत्र नाधारो अस्ति
न यन् मित्रैः समममान एति ।
पक्तारं पक्वः पुनर् आ विशास्य्
अनूनं पात्रं निहितं नो अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०८ अहं पचाम्य् अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं पचाम्य् अहम् इद् वदामि
ममेद् उ कर्मन् करुणे ऽपि जायाः ।
कौमारो लोको अजनिष्ट पुत्रो
ऽन्व् आरभेथां वय उत्तरावत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं पचाम्य् अहम् इद् वदामि
ममेद् उ कर्मन् करुणे ऽपि जायाः ।
कौमारो लोको अजनिष्ट पुत्रो
ऽन्व् आरभेथां वय उत्तरावत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ प्रियं प्रियाणां कृणवाम
विश्वास-प्रस्तुतिः ...{Loading}...
प्रियं प्रियाणां कृणवाम यातन्
तमस् ते हन्तु यतमे द्विषन्ति ।
धेनुर् अनड्वान् वयो यद् अन्यत्
पौरुषेयम् अप मृत्युं नुदन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रियं प्रियाणां कृणवाम यातन्
तमस् ते हन्तु यतमे द्विषन्ति ।
धेनुर् अनड्वान् वयो यद् अन्यत्
पौरुषेयम् अप मृत्युं नुदन्तु ॥
सर्वाष् टीकाः ...{Loading}...
१० सम् अग्नयो विदुर्
विश्वास-प्रस्तुतिः ...{Loading}...
सम् अग्नयो विदुर् अन्यो अन्यं
य ओषधीः सचते यश् च सिन्धून् ।
यावन्तो देवा दिव्य् आतपन्ति
हिरण्यं ज्योतिर् दधतो बभूव ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम् अग्नयो विदुर् अन्यो अन्यं
य ओषधीः सचते यश् च सिन्धून् ।
यावन्तो देवा दिव्य् आतपन्ति
हिरण्यं ज्योतिर् दधतो बभूव ॥