सर्वाष् टीकाः ...{Loading}...
०१ प्र यच्छ पर्शुम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र यच्छ पर्शुं त्वरया हरन्त्व्
अहिंसन्त ओषधीर् दान्तु पर्वम् ।
सोमो यासां परि राज्यं बभूव-
-अमन्युता वीरुधो मे भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र यच्छ पर्शुं त्वरया हरन्त्व्
अहिंसन्त ओषधीर् दान्तु पर्वम् ।
सोमो यासां परि राज्यं बभूव-
-अमन्युता वीरुधो मे भवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ नवं बर्हिर् ओदनाय
विश्वास-प्रस्तुतिः ...{Loading}...
नवं बर्हिर् ओदनाय स्तृणीत
प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु ।
तत्र देवाः सह देवैर् विशन्त्व्
इमं प्राश्नन्तु दक्षिणतो निषद्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
नवं बर्हिर् ओदनाय स्तृणीत
प्रियं हृदश् चक्षुषो वल्ग्व् अस्तु ।
तत्र देवाः सह देवैर् विशन्त्व्
इमं प्राश्नन्तु दक्षिणतो निषद्य ॥
सर्वाष् टीकाः ...{Loading}...
०३ वनस्पते स्तीर्णम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
वनस्पते स्तीर्णम् आ सीद बर्हिर्
अग्निष्टोमैः संमितो देवताभिः ।
त्वष्टेव रूपं सुकृतं स्वधीत्येना
एहाः परि पात्रे ददृश्राम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वनस्पते स्तीर्णम् आ सीद बर्हिर्
अग्निष्टोमैः संमितो देवताभिः ।
त्वष्टेव रूपं सुकृतं स्वधीत्येना
एहाः परि पात्रे ददृश्राम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ धर्ता ध्रियस्व धरुणे
विश्वास-प्रस्तुतिः ...{Loading}...
धर्ता ध्रियस्व धरुणे पृथिव्या
अच्युतं त्वा देवताश् च्यावयन्तु ।
तं दम्पती जीवन्तौ जीवपुत्रा
उद्वासयातः पर्य् अग्निधानात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धर्ता ध्रियस्व धरुणे पृथिव्या
अच्युतं त्वा देवताश् च्यावयन्तु ।
तं दम्पती जीवन्तौ जीवपुत्रा
उद्वासयातः पर्य् अग्निधानात् ॥
सर्वाष् टीकाः ...{Loading}...
०५ षष्ट्यै शरद्भ्यः परि
विश्वास-प्रस्तुतिः ...{Loading}...
षष्ट्यै शरद्भ्यः परि दध्म एतं
स्वः पक्वेनाभ्य् अश्नवातै ।
उपैनं पुत्राः पितरश् च सीदान्
इमं स्वर्गं गमयान्तम् अग्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
षष्ट्यै शरद्भ्यः परि दध्म एतं
स्वः पक्वेनाभ्य् अश्नवातै ।
उपैनं पुत्राः पितरश् च सीदान्
इमं स्वर्गं गमयान्तम् अग्ने ॥
सर्वाष् टीकाः ...{Loading}...
०६ सर्वान् समागान् अभिजित्य
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वान् समागान् अभिजित्य लोकान्
यावन्तः कामाः समपूपुरस् तान् ।
वि गाहेथाम् आयवनं च दर्विर्
एकस्मिन् पात्रे अध्युद्धरैनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वान् समागान् अभिजित्य लोकान्
यावन्तः कामाः समपूपुरस् तान् ।
वि गाहेथाम् आयवनं च दर्विर्
एकस्मिन् पात्रे अध्युद्धरैनम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उप स्तृणीहि प्रथया
विश्वास-प्रस्तुतिः ...{Loading}...
उप स्तृणीहि प्रथया पुरस्ताद्
घृतेन पात्रम् अभि घारयेदम् ।
वाश्रेवोस्रा तरुणं स्तरस्मिम्
इमं देवासो अभिहिंकराथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप स्तृणीहि प्रथया पुरस्ताद्
घृतेन पात्रम् अभि घारयेदम् ।
वाश्रेवोस्रा तरुणं स्तरस्मिम्
इमं देवासो अभिहिंकराथ ॥
सर्वाष् टीकाः ...{Loading}...
०८ उपास्तरीर् अकरो लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
उपास्तरीर् अकरो लोकम् एतम्
उरुः पृथुश् चासमः स्वर्गः ।
तस्मिन् सुपर्णो महिषः श्रयातै
देवा एनं देवताभ्यः प्र यच्छान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपास्तरीर् अकरो लोकम् एतम्
उरुः पृथुश् चासमः स्वर्गः ।
तस्मिन् सुपर्णो महिषः श्रयातै
देवा एनं देवताभ्यः प्र यच्छान् ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद्यज् जाया पचति
विश्वास-प्रस्तुतिः ...{Loading}...
यद्यज् जाया पचति त्वत् परःपरः
पतिर् वा जाय उत त्वत् तिरः ।
सं तत् सृजेथां सह वां तद् अस्तु (Bhatt. santat … vāntad)
सं राधयन्तौ सह लोकम् एतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद्यज् जाया पचति त्वत् परःपरः
पतिर् वा जाय उत त्वत् तिरः ।
सं तत् सृजेथां सह वां तद् अस्तु (Bhatt. santat … vāntad)
सं राधयन्तौ सह लोकम् एतम् ॥
सर्वाष् टीकाः ...{Loading}...
१० यावन्तो अस्याः पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
यावन्तो अस्याः पृथिवीं सचन्ते
अस्मात् पुत्राः परि ये संबभूवुः ।
सर्वांस् तान् उप पात्रे ह्वयेथां
नाभिं जनानाः शिशवः समायन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावन्तो अस्याः पृथिवीं सचन्ते
अस्मात् पुत्राः परि ये संबभूवुः ।
सर्वांस् तान् उप पात्रे ह्वयेथां
नाभिं जनानाः शिशवः समायन् ॥