सर्वाष् टीकाः ...{Loading}...
०१ पृथग् रूपाणि बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
पृथग् रूपाणि बहुधा पशूनाम्
एकरूपो भवति सं समृद्ध्याम् ।
एतां त्वचं लोहिनीं तां नुदेथां
ग्रावा शुन्धाति मलग इव वस्त्रा ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथग् रूपाणि बहुधा पशूनाम्
एकरूपो भवति सं समृद्ध्याम् ।
एतां त्वचं लोहिनीं तां नुदेथां
ग्रावा शुन्धाति मलग इव वस्त्रा ॥
सर्वाष् टीकाः ...{Loading}...
०२ जनित्रीव प्रति हृण्यासि
विश्वास-प्रस्तुतिः ...{Loading}...
जनित्रीव प्रति हृण्यासि सूनुं
सं त्वा दधामि पृथिवीं पृथिव्या । +++(Bhatt. pṛthivyām)+++
उखाः कुम्भीर् वेद्यां संचरन्तां
यज्ञायुधैर् आज्येनाभिषिक्ताः ॥ +++(Bhatt. ājyenātiṣaktā+)+++
मूलम् ...{Loading}...
मूलम् (GR)
जनित्रीव प्रति हृण्यासि सूनुं
सं त्वा दधामि पृथिवीं पृथिव्या । +++(Bhatt. pṛthivyām)+++
उखाः कुम्भीर् वेद्यां संचरन्तां
यज्ञायुधैर् आज्येनाभिषिक्ताः ॥ +++(Bhatt. ājyenātiṣaktā+)+++
सर्वाष् टीकाः ...{Loading}...
०३ भूम्यां त्वा भूमिम्
विश्वास-प्रस्तुतिः ...{Loading}...
भूम्यां त्वा भूमिम् अधि धारयामि
तनूः समानी विकृता त एषा ।
यद्यद् युक्तं लिखितम् अर्पणं च
तेन मा सुस्रोर् अपि तद् वपामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूम्यां त्वा भूमिम् अधि धारयामि
तनूः समानी विकृता त एषा ।
यद्यद् युक्तं लिखितम् अर्पणं च
तेन मा सुस्रोर् अपि तद् वपामि ॥
सर्वाष् टीकाः ...{Loading}...
०४ अग्निः पचन् रक्षतु
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निः पचन् रक्षतु त्वा पुरस्ताद्
इन्द्रो रक्षाद् दक्षिणतो महित्वा ।
सोमस् त्वा दृंहाद् धरुणे प्रतीच्या
उत्तरात् त्वा वरुणः सं ददातै ॥ +++(Bhatt. uttarā(t))+++
मूलम् ...{Loading}...
मूलम् (GR)
अग्निः पचन् रक्षतु त्वा पुरस्ताद्
इन्द्रो रक्षाद् दक्षिणतो महित्वा ।
सोमस् त्वा दृंहाद् धरुणे प्रतीच्या
उत्तरात् त्वा वरुणः सं ददातै ॥ +++(Bhatt. uttarā(t))+++
सर्वाष् टीकाः ...{Loading}...
०५ आ यन्तु दिवः
विश्वास-प्रस्तुतिः ...{Loading}...
आ यन्तु दिवः पृथिवीं सचन्ते
भूम्याः सचन्ते उर्व् अन्तरिक्षम् । +++(sacante urv- sandhi?)+++
शुद्धाः सतीस् ता उ शुन्धन्त एव
ता नः स्वर्गम् अभि लोकं नयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ यन्तु दिवः पृथिवीं सचन्ते
भूम्याः सचन्ते उर्व् अन्तरिक्षम् । +++(sacante urv- sandhi?)+++
शुद्धाः सतीस् ता उ शुन्धन्त एव
ता नः स्वर्गम् अभि लोकं नयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०६ पूताः पवित्रैः पवन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
पूताः पवित्रैः पवन्ते अभ्राद्
दिवं च यन्ति पृथिवीं च लोकान् । +++(Bhatt. lokāṃ)+++
ता जीवला जीवधन्याः प्रतिष्ठाः
पात्र आसिक्ताः पर्य् अग्निर् एन्धाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूताः पवित्रैः पवन्ते अभ्राद्
दिवं च यन्ति पृथिवीं च लोकान् । +++(Bhatt. lokāṃ)+++
ता जीवला जीवधन्याः प्रतिष्ठाः
पात्र आसिक्ताः पर्य् अग्निर् एन्धाम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ उतेव प्रभ्वीर् उत
विश्वास-प्रस्तुतिः ...{Loading}...
उतेव प्रभ्वीर् उत संमितास
उत शुक्राः शुचयश् चामृतासः ।
ता ओदनं दम्पतिभ्यां प्रतिष्ठा
आपः शिक्षन्तीः प्रवता सुनाथाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतेव प्रभ्वीर् उत संमितास
उत शुक्राः शुचयश् चामृतासः ।
ता ओदनं दम्पतिभ्यां प्रतिष्ठा
आपः शिक्षन्तीः प्रवता सुनाथाः ॥
सर्वाष् टीकाः ...{Loading}...
०८ उद् योधयन्त्य् अभि
विश्वास-प्रस्तुतिः ...{Loading}...
उद् योधयन्त्य् अभि वल्गन्ती तप्ताः
फेनम् अस्यन्ति बहुलं च बिन्दुम् । +++(Bhatt. bindūn)+++
योषेव दृष्ट्वा पतिम् ऋत्विया या-
-एतैस् तण्डुलैर् भवता सम् आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् योधयन्त्य् अभि वल्गन्ती तप्ताः
फेनम् अस्यन्ति बहुलं च बिन्दुम् । +++(Bhatt. bindūn)+++
योषेव दृष्ट्वा पतिम् ऋत्विया या-
-एतैस् तण्डुलैर् भवता सम् आपः ॥
सर्वाष् टीकाः ...{Loading}...
०९ सङ्ख्याता स्तोकाः पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
संख्याता स्तोकाः पृथिवीं सचन्ते
प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः
सर्वं समापं शुचयः शुचित्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
संख्याता स्तोकाः पृथिवीं सचन्ते
प्राणापानैः संमिता ओषधीभिः ।
असंख्याता ओप्यमानाः सुवर्णाः
सर्वं समापं शुचयः शुचित्वम् ॥
सर्वाष् टीकाः ...{Loading}...
१० उत्थापय सीदतो बुध्न
विश्वास-प्रस्तुतिः ...{Loading}...
उत्थापय सीदतो बुध्न एनान्
अद्भिर् आत्मानम् अपि सं सृजन्ताम् ।
अमासि पात्र उदकं यद् एतन्
मितास् तण्डुलाः प्रदिशो यतीमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्थापय सीदतो बुध्न एनान्
अद्भिर् आत्मानम् अपि सं सृजन्ताम् ।
अमासि पात्र उदकं यद् एतन्
मितास् तण्डुलाः प्रदिशो यतीमाः ॥