सर्वाष् टीकाः ...{Loading}...
०१ ध्रुवेयं विराण् नमो
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवेयं विराण् नमो अस्त्व् अस्यै
शिवा पुत्रेभ्य उत मह्यम् अस्तु । (Bhatt. putrebhyaṃ, misprint)
सा नो देव्य् अदिते विश्ववार
इर्य इव गोपा अभि रक्ष पक्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवेयं विराण् नमो अस्त्व् अस्यै
शिवा पुत्रेभ्य उत मह्यम् अस्तु । (Bhatt. putrebhyaṃ, misprint)
सा नो देव्य् अदिते विश्ववार
इर्य इव गोपा अभि रक्ष पक्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ पितेव पुत्रां अभि
विश्वास-प्रस्तुतिः ...{Loading}...
पितेव पुत्राꣳ अभि सं सचस्व नः
शिवा नो वाता इह वान्तु शग्माः । (Bhatt. śagmā(ḥ))
यम् ओदनं पचतो देवते इह
तं नस् तप उत सत्यं म वित्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पितेव पुत्राꣳ अभि सं सचस्व नः
शिवा नो वाता इह वान्तु शग्माः । (Bhatt. śagmā(ḥ))
यम् ओदनं पचतो देवते इह
तं नस् तप उत सत्यं म वित्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद्यत् कृष्णः शकुन
विश्वास-प्रस्तुतिः ...{Loading}...
यद्यत् कृष्णः शकुन एह गत्वा
त्सरं विषक्तं बिल आससाद ।
दासी वा यद् आर्द्रहस्ता समङ्क्त
उलूखलं मुसलं शुन्धतापः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद्यत् कृष्णः शकुन एह गत्वा
त्सरं विषक्तं बिल आससाद ।
दासी वा यद् आर्द्रहस्ता समङ्क्त
उलूखलं मुसलं शुन्धतापः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अयं ग्रावा पृथुबुध्नो
विश्वास-प्रस्तुतिः ...{Loading}...
अयं ग्रावा पृथुबुध्नो वयोधाः
पूतः पवित्रैर् अप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ
मा दम्पती पौत्रम् अघं नि गाताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं ग्रावा पृथुबुध्नो वयोधाः
पूतः पवित्रैर् अप हन्तु रक्षः ।
आ रोह चर्म महि शर्म यच्छ
मा दम्पती पौत्रम् अघं नि गाताम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ वनस्पतिः सह देवैर्
विश्वास-प्रस्तुतिः ...{Loading}...
वनस्पतिः सह देवैर् न आगन्
रक्षः पिशाचाꣳ अपबाधमानः । (Bhatt. piśācāṃ)
स उच्छ्रयातै प्र वदाति वाचं
तेन लोकाꣳ अभि सर्वाञ् जयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वनस्पतिः सह देवैर् न आगन्
रक्षः पिशाचाꣳ अपबाधमानः । (Bhatt. piśācāṃ)
स उच्छ्रयातै प्र वदाति वाचं
तेन लोकाꣳ अभि सर्वाञ् जयेम ॥
सर्वाष् टीकाः ...{Loading}...
०६ सप्त मेधां पशवः
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त मेधां पशवः पर्य् अगृह्णन्
य एषां मेदस्वान् उत यश् चकर्श ।
त्रयस्त्रिंशद् देवतास् त्वां सचन्ते
स नः स्वर्गम् अभि नेषि लोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त मेधां पशवः पर्य् अगृह्णन्
य एषां मेदस्वान् उत यश् चकर्श ।
त्रयस्त्रिंशद् देवतास् त्वां सचन्ते
स नः स्वर्गम् अभि नेषि लोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ स्वर्गं लोकम् अभि
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर्गं लोकम् अभि नो नयासि
सं जाया सह पुत्रैः स्याम ।
गृह्णामि हस्तम् अन्व् ऐत्व् अत्र
मा नस् तारीन् निरृतिर् मो अरातिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वर्गं लोकम् अभि नो नयासि
सं जाया सह पुत्रैः स्याम ।
गृह्णामि हस्तम् अन्व् ऐत्व् अत्र
मा नस् तारीन् निरृतिर् मो अरातिः ॥
सर्वाष् टीकाः ...{Loading}...
०८ ग्राहिं पाप्मानम् अति
विश्वास-प्रस्तुतिः ...{Loading}...
ग्राहिं पाप्मानम् अति ताꣳ अयाम (Bhatt. tāṃ)
तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्
मा तण्डुलं वि शरीर् देवयन्तम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ग्राहिं पाप्मानम् अति ताꣳ अयाम (Bhatt. tāṃ)
तमो व्यस्य प्र वदासि वल्गु ।
वानस्पत्य उद्यतो मा जिहिंसीर्
मा तण्डुलं वि शरीर् देवयन्तम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ विश्वव्यचा घृतपृष्ठो भविष्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वव्यचा घृतपृष्ठो भविष्यं
सयोनिर् लोकम् उप याहि विद्वान् ।
वर्षवृद्धम् उप यच्छ शूर्पे
त्विषिं पलावान् अप तद् विनक्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वव्यचा घृतपृष्ठो भविष्यं
सयोनिर् लोकम् उप याहि विद्वान् ।
वर्षवृद्धम् उप यच्छ शूर्पे
त्विषिं पलावान् अप तद् विनक्तु ॥
सर्वाष् टीकाः ...{Loading}...
१० त्रयो लोकाः सम्मिता
विश्वास-प्रस्तुतिः ...{Loading}...
त्रयो लोकाः संमिता ब्राह्मणेन
द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् ।
अंशून् गृभितान् अनु संरभेथाम् (read gṛbhītām̐?)
आ प्यायन्तां पुनर् आ यन्तु शूर्पात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रयो लोकाः संमिता ब्राह्मणेन
द्यौर् एवासौ पृथिव्य् अन्तरिक्षम् ।
अंशून् गृभितान् अनु संरभेथाम् (read gṛbhītām̐?)
आ प्यायन्तां पुनर् आ यन्तु शूर्पात् ॥