०५०

सर्वाष् टीकाः ...{Loading}...

०१ पुमान् पुंसो अधि

विश्वास-प्रस्तुतिः ...{Loading}...

पुमान् पुंसो अधि तिष्ठ चर्म
तत्र ह्वयस्व यतमा प्रिया ते ।
यावन्ताव् अग्रे प्रथमं समेयथुस्
तद् वां वयो यमराज्ये समानम् ॥

०२ तावद् वां तेजस्

विश्वास-प्रस्तुतिः ...{Loading}...

तावद् वां तेजस् तति वीर्याणि
तावच् चक्षुस् ततिधा वाजिनानि ।
अग्निः शरीरं सचते यदैधो
अधा पक्वान् मिथुना सं भवाथः ॥ (Bhatt. bhavātha(ḥ))

०३ सम् अस्मिंल् लोके

विश्वास-प्रस्तुतिः ...{Loading}...

सम् अस्मिंल् लोके सम् उ देवयाने
सं स्मा समेतं यमराज्ये ।
पूतौ पवित्रैर् उप तद् उ ह्वयेथां
यद्यद् रेतो अधि वां संबभूव ॥

०४ आपः पुत्रासो अभि

विश्वास-प्रस्तुतिः ...{Loading}...

आपः पुत्रासो अभि सं विशध्वम्
इमं जीवं जीवधन्याः सम् एत ।
तासां भजध्वम् अमृतं यद् आहुर्
यम् ओदनं पचति वो जनित्री ॥

०५ यं वः पिता

विश्वास-प्रस्तुतिः ...{Loading}...

यं वः पिता पचति यं च माता
रिप्रान् निर्मुक्थ्यै शमलाच् च वाचः ।
स ओदनः शतधारः स्वर्ग
उभे व्याप नभसी महित्वा ॥

०६ उभे नभसी उभयांश्

विश्वास-प्रस्तुतिः ...{Loading}...

उभे नभसी उभयांश् च लोकान्
ये यज्वनाम् अभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे
तस्मिन् पुत्रैर् जरसि सं श्रयेथाम् ॥

०७ प्राचीम्प्राचीं प्रदिशम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

प्राचींप्राचीं प्रदिशम् आ रभेताम्
एतं लोकं श्रद्दधानाः सचन्ते ।
मिमाथां पात्रं तद् वां पूर्णम् अस्तु
स वां पक्वः पित्र्याणे न्यायत् ॥

०८ दक्षिणां दिशम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

दक्षिणां दिशम् अभि नक्षमाणौ
पर्य् आवर्तेथाम् अभि पात्रम् एतत् ।
तस्मै वां यमः पितृभिः संविदानः
पक्वाय शर्म बहुलं नि यच्छात् ॥

०९ प्रतीची दिशाम् इयम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीची दिशाम् इयम् इद् वरं वां
यस्यां सोमो अधिपा मृडिता च ।
तस्यां मिमाथां सुकृतः सचेथाम्
अधा पक्वेन सह सं भवेम ॥

१० उत्तरं राष्ट्रं प्रजयोत्तरावद्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्तरं राष्ट्रं प्रजयोत्तरावद्
दिशाम् उदीची कृणवन् नो अग्रम् ।
पाङ्क्तं छन्दः पुरुषो बभूव
विश्वैर् विश्वाङ्गैः सह सं भवेम ॥