सर्वाष् टीकाः ...{Loading}...
०१ ये ऽश्रद्धया धनकाम्यात्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ऽश्रद्धया धनकाम्यात्
क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं
पर्य् आदधति सर्वदा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ऽश्रद्धया धनकाम्यात्
क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं
पर्य् आदधति सर्वदा ॥
सर्वाष् टीकाः ...{Loading}...
०२ इषीकां चरतीं वित्त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
इषीकां चरतीं वित्त्वा
तिल्पियं दण्डनं नडम् ।
तान् इन्द्र इध्मं कृत्वा
यमस्याग्निं निरादधौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इषीकां चरतीं वित्त्वा
तिल्पियं दण्डनं नडम् ।
तान् इन्द्र इध्मं कृत्वा
यमस्याग्निं निरादधौ ॥
सर्वाष् टीकाः ...{Loading}...
०३ अविः कृष्णा भागधेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अविः कृष्णा भागधेयं पशूनां
सीसं क्रव्याद् उत चन्द्रं त आहुः ।
माषाः पिष्टा भागधेयं हव्यं ते
ऽरण्यान्या गह्वरं सचस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
अविः कृष्णा भागधेयं पशूनां
सीसं क्रव्याद् उत चन्द्रं त आहुः ।
माषाः पिष्टा भागधेयं हव्यं ते
ऽरण्यान्या गह्वरं सचस्व ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा
प्रविद्वान् पन्थां वि ह्य् आचकार ।
परामीषाम् असून् दिदेश
दीर्घेणायुषा सम् अधाद् इहेमान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रत्यञ्चम् अर्कं प्रत्यर्पयित्वा
प्रविद्वान् पन्थां वि ह्य् आचकार ।
परामीषाम् असून् दिदेश
दीर्घेणायुषा सम् अधाद् इहेमान् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अनड्वाहं प्लवम् अन्व्
विश्वास-प्रस्तुतिः ...{Loading}...
अनड्वाहं प्लवम् अन्व् आरभध्वं
स वो निर्वक्षद् दुरिताद् अवद्यात् । +++(Bhatt. nirvakṣa(d))+++
आ रोहत सवितुर् नावं हिरण्ययीं
षड्भिर् ऊर्मिभिर् अमतिं चरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनड्वाहं प्लवम् अन्व् आरभध्वं
स वो निर्वक्षद् दुरिताद् अवद्यात् । +++(Bhatt. nirvakṣa(d))+++
आ रोहत सवितुर् नावं हिरण्ययीं
षड्भिर् ऊर्मिभिर् अमतिं चरेम ॥
सर्वाष् टीकाः ...{Loading}...
०६ गोभिष् टरेमामतिं दुरेवाम्
विश्वास-प्रस्तुतिः ...{Loading}...
गोभिष् टरेमामतिं दुरेवां
यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजानः प्रथमा धनानाम्
अरिष्टास ऋजनीभिस् तरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
गोभिष् टरेमामतिं दुरेवां
यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजानः प्रथमा धनानाम्
अरिष्टास ऋजनीभिस् तरेम ॥
सर्वाष् टीकाः ...{Loading}...
०७ पूर्णं नारि प्र
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्णं नारि प्र हराभि कुम्भम्
अपां रसैर् ओषधीनां घृतस्य ।
इमान् पातॄंर् अमृतेना सम् अङ्धि
स्थिरा वीराः संमनसो भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्णं नारि प्र हराभि कुम्भम्
अपां रसैर् ओषधीनां घृतस्य ।
इमान् पातॄंर् अमृतेना सम् अङ्धि
स्थिरा वीराः संमनसो भवन्तु ॥