०४८

सर्वाष् टीकाः ...{Loading}...

०१ यद् रिप्रं दुरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् रिप्रं दुरितं
चकृमा यच् च दुष्कृतम् ।
आपो मा तस्माच् छुन्धन्त्व्
अग्निः संकसुकश् च यः ॥ (Bhatt. saṅkasukaś)

०२ ता अधराद् उदीचीर्

विश्वास-प्रस्तुतिः ...{Loading}...

ता अधराद् उदीचीर् आववृत्रन् (Bhatt. āvavṛtraṃ)
प्रजानतीः पथिभिर् देवयानैः ।
पर्वतस्य ऋषभस्याधि पृष्ठे
नवाश् चरन्ति सरितः पुराणीः ॥

०३ अग्ने अक्रव्यान् निष्क्रव्यादम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने अक्रव्यान् निष्क्रव्यादं नुदा देवजनं वह ॥

०४ इमं क्रव्यात् प्र

विश्वास-प्रस्तुतिः ...{Loading}...

इमं क्रव्यात् प्र विवेश-
-अयं क्रव्यादम् अन्व् अगात् ।
व्याघ्रौ कृत्वा नानानं
तं हरामि शिवापरम् ॥

०५ अन्तर्धिर् देवानां परिधिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर्धिर् देवानां
परिधिर् मनुष्याणाम्
अग्निर् गार्हपत्य
उभयान् अन्तरा श्रितः ।
जीवानाम् अग्ने प्र तिर दीर्घम् आयुः
पितॄणां लोकम् उप यन्तु ये मृताः ॥

०६ सुगार्हपत्यो वितपन्न् अरातीर्

विश्वास-प्रस्तुतिः ...{Loading}...

सुगार्हपत्यो वितपन्न् अरातीर्
उषामुषां श्रेयसींश्रेयसीं दधत् ।
सर्वान् अग्ने सहमानः सपत्नान्
ऐषाम् ऊर्जं रयिम् अस्मासु धेहि ॥

०७ इमम् इन्द्रं वह्निम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमम् इन्द्रं वह्निं पप्रिम् अन्व् आरभध्वं
स वो निविद्वान् विजहातु मृत्युम् ।
तेनाप हत शरुम् आपतन्तं
तेन रुद्रस्य परि पातास्ताम् ॥

०८ अहोरात्रे अन्व् एषि

विश्वास-प्रस्तुतिः ...{Loading}...

अहोरात्रे अन्व् एषि बिभ्रत्
क्षेम्यस् तिष्ठन् प्रतरणः सुवीरः ।
अनातुरां सुमनसस् तल्प बिभ्रज्
ज्योग् एव नः पुरुषगन्धिर् एधि ॥

०९ ते देवेष्व् आ

विश्वास-प्रस्तुतिः ...{Loading}...

ते देवेष्व् आ वृश्चन्ते
पापं जीवन्ति सर्वदा ।
क्रव्याद् यान् अग्निर् अन्तिकाद्
अनुविद्वान् वितावति ॥

१० प्रेव मनसा पतिति

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेव मनसा पतिति
मुहुर् आ वर्तते पुनः ।
क्रव्याद् यम् अग्निर् अन्तिकाद्
अश्व इवानुवपते नडम् ॥