०४६

सर्वाष् टीकाः ...{Loading}...

०१ परं मृत्यो अनु

विश्वास-प्रस्तुतिः ...{Loading}...

परं मृत्यो अनु परेहि पन्थां
यस् त एष इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि-
-इह मे वीरा बहवो भवन्तु ॥

०२ इमे जीवा वि

विश्वास-प्रस्तुतिः ...{Loading}...

इमे जीवा वि मृतैर् आववृत्रन्न्
अभूद् भद्रा देवहूतिर् नो अद्य ।
प्राञ्चो अगाम नृतये हसाय
सुवीरासो विदथम् आ वदेम ॥

०३ इमं जीवेभ्यः परिधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं जीवेभ्यः परिधिं दधामि
मैषां नु गाद् अपरो अर्थम् एतम् ।
ज्योग् जीवन्तः शरदः पुरूचीस्
तिरो मृत्युं दधतां पर्वतेन ॥

०४ यथाहान्य् अनुपूर्वं भवन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यथाहान्य् अनुपूर्वं भवन्ति
यथर्तव ऋतुभिर् यन्ति साकम् ।
यथा न पूर्वो अपरं जहात्य्
एवा त्वष्टर् आयुंषि कल्पयैषाम् ॥

०५ आ रोहतायुर् जरसम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ रोहतायुर् जरसं वृणाना
अनुपूर्वं यतमाना यति ष्ठ ।
तान् वस् त्वष्टा सुजनिमा सजोषाः
सर्वम् आयुर् नयतु जीवनाय ॥

०६ अश्मन्वती रीयते सम्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्मन्वती रीयते सं रभध्वं
वीरयध्वं प्र तरता सखायः ।
अत्रा जहीत ये असन् दुरेवा
अनमीवान् उत् तरेमाभि वाजान् ॥

०७ उत् तिष्ठता प्र

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठता प्र तरता सखायो
+ऽश्मन्वती स्यन्दते नदीयम् ।
अत्रा जहीत ये असन्न् अशिवाः
शिवान् स्योनान् उत् तरेमाभि वाजान् ॥ +++(Bhatt. śivāṃ)+++

०८ वैश्वदेवीं सूनृताम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वदेवीं सूनृताम् आ रभध्वं
शुद्धा भवन्तः शुचयः पावकाः ।
अतिक्रामन्तो दुरितानि विश्वा
शतं हिमाः सर्ववीरा मदेम ॥

०९ उदीचीनैः पथिभिर् वायुम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदीचीनैः पथिभिर् वायुम् अद्भिर्
अतिक्रामन्तो ऽवरान् परेभिः ।
त्रिः सप्त कृत्व ऋषयः परेता
मृत्युं प्रत्यौहन् पदयोपनेन ॥

१० मृत्योः पदं योपयन्त

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्योः पदं योपयन्त एत
द्राघीय आयुः प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थे
ऽथ जीवा विदथम् आ वदेम ॥