सर्वाष् टीकाः ...{Loading}...
०१ सम् इन्धते सङ्कसुकम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम् इन्धते संकसुकं स्वस्तये
शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रम् अत्य् एन एति
समिद्धो अग्निः सुपुना पुनाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम् इन्धते संकसुकं स्वस्तये
शुद्धा भवन्तः शुचयः पावकाः ।
जहाति रिप्रम् अत्य् एन एति
समिद्धो अग्निः सुपुना पुनाति ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवो अग्निः सङ्कसुको
विश्वास-प्रस्तुतिः ...{Loading}...
देवो अग्निः संकसुको
दिवस् पृष्ठान्य् आरुहत् ।
मुच्यमानो निर् अंहसो
मोह्यास्माꣳ अशस्त्याः ॥ (Bhatt. aśastyā(ḥ))
मूलम् ...{Loading}...
मूलम् (GR)
देवो अग्निः संकसुको
दिवस् पृष्ठान्य् आरुहत् ।
मुच्यमानो निर् अंहसो
मोह्यास्माꣳ अशस्त्याः ॥ (Bhatt. aśastyā(ḥ))
सर्वाष् टीकाः ...{Loading}...
०३ अस्मिन् वयं सङ्कसुके
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मिन् वयं संकसुके
अग्ने रिप्राणि मृज्महे ।
अभूम यज्ञियाः शुद्धाः
प्र ण आयूंषि तारिषत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मिन् वयं संकसुके
अग्ने रिप्राणि मृज्महे ।
अभूम यज्ञियाः शुद्धाः
प्र ण आयूंषि तारिषत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ सङ्कसुको विकसुको निरृथो
विश्वास-प्रस्तुतिः ...{Loading}...
संकसुको विकसुको
निरृथो यश् च निस्वरः ।
ते ते यक्ष्मं सवेदसो
दूराद् दूरम् अचुच्यवुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
संकसुको विकसुको
निरृथो यश् च निस्वरः ।
ते ते यक्ष्मं सवेदसो
दूराद् दूरम् अचुच्यवुः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अन्नात् त्वा पुरुषेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्नात् त्वा पुरुषेभ्यो (Bhatt. annā(t) tvā)
गोभ्यो अश्वेभ्यस् त्वा ।
क्रव्यादं निर् णुदामस्य्
अग्निं जीवितयोपनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्नात् त्वा पुरुषेभ्यो (Bhatt. annā(t) tvā)
गोभ्यो अश्वेभ्यस् त्वा ।
क्रव्यादं निर् णुदामस्य्
अग्निं जीवितयोपनम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यो नो अश्वेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो अश्वेषु वीरेषु
यो गोषु यो अजादिषु ।
क्रव्यादं निर् णुदामस्य्
अग्निर् यो जनयोपनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नो अश्वेषु वीरेषु
यो गोषु यो अजादिषु ।
क्रव्यादं निर् णुदामस्य्
अग्निर् यो जनयोपनः ॥
सर्वाष् टीकाः ...{Loading}...
०७ समिद्धो अग्न आहुत
विश्वास-प्रस्तुतिः ...{Loading}...
समिद्धो अग्न आहुत
स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि
ज्योक् च सूर्याय दृशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
समिद्धो अग्न आहुत
स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि
ज्योक् च सूर्याय दृशे ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस्मिन् देवा अमृजत
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मिन् देवा अमृजत
यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा
त्वम् अग्ने दिवं रुह ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मिन् देवा अमृजत
यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा
त्वम् अग्ने दिवं रुह ॥
सर्वाष् टीकाः ...{Loading}...
०९ सीसे मृढ्वं नडे
विश्वास-प्रस्तुतिः ...{Loading}...
सीसे मृढ्वं नडे मृढ्वम्
अग्निः संकसुकश् च यः ।
अथो अव्यां रामायां
शीर्षक्तिम् उपबर्हणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सीसे मृढ्वं नडे मृढ्वम्
अग्निः संकसुकश् च यः ।
अथो अव्यां रामायां
शीर्षक्तिम् उपबर्हणे ॥
सर्वाष् टीकाः ...{Loading}...
१० सीसे बलं सादयित्वा
विश्वास-प्रस्तुतिः ...{Loading}...
सीसे बलं सादयित्वा (read ‘balaṃ or malaṃ?)
शीर्षक्तिम् उपबर्हणे ।
अव्याम् असिक्न्यां मृष्ट्वा
शुद्धा भवन्ति यज्ञियाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सीसे बलं सादयित्वा (read ‘balaṃ or malaṃ?)
शीर्षक्तिम् उपबर्हणे ।
अव्याम् असिक्न्यां मृष्ट्वा
शुद्धा भवन्ति यज्ञियाः ॥