सर्वाष् टीकाः ...{Loading}...
०१ नडम् आ रोह
विश्वास-प्रस्तुतिः ...{Loading}...
नडम् आ रोह न ते अत्र लोक
इदं सीसं भागधेयं त एहि ।
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्
तेन त्वं साकम् अधराङ् परेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नडम् आ रोह न ते अत्र लोक
इदं सीसं भागधेयं त एहि ।
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्
तेन त्वं साकम् अधराङ् परेहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ अघशंसदुःशंसौ करेणानुकरेण च
विश्वास-प्रस्तुतिः ...{Loading}...
अघशंसदुःशंसौ
करेणानुकरेण च ।
मृत्यूंश् च सर्वांस् तेनेतो
यक्ष्मांश् च निर् अजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अघशंसदुःशंसौ
करेणानुकरेण च ।
मृत्यूंश् च सर्वांस् तेनेतो
यक्ष्मांश् च निर् अजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ निर् इतो मृत्युम्
विश्वास-प्रस्तुतिः ...{Loading}...
निर् इतो मृत्युं निरृतिं
निर् यक्ष्मम् अजामसि ।
यो नो द्वेष्टि तम् अद्ध्य् अग्ने क्रव्याद्
यं द्विष्मस् तं ते प्र सुवामः ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् इतो मृत्युं निरृतिं
निर् यक्ष्मम् अजामसि ।
यो नो द्वेष्टि तम् अद्ध्य् अग्ने क्रव्याद्
यं द्विष्मस् तं ते प्र सुवामः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद्य् अग्निः क्रव्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र
इमं गोष्ठम् अन्योका आ विवेश ।
तं माषाज्यं कृत्वा प्र हिणोमि
दूरं स गच्छत्व् अप्सुषदो ऽत्य् अग्नीन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद्य् अग्निः क्रव्याद् यदि वा व्याघ्र
इमं गोष्ठम् अन्योका आ विवेश ।
तं माषाज्यं कृत्वा प्र हिणोमि
दूरं स गच्छत्व् अप्सुषदो ऽत्य् अग्नीन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् त्वा कुद्धाः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् त्वा कुद्धाः प्रचक्रुर्
मन्युना पुरुषे मृते ।
सुकल्पम् अग्ने तत् त्वया
पुनस् त्वोद् दीपयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् त्वा कुद्धाः प्रचक्रुर्
मन्युना पुरुषे मृते ।
सुकल्पम् अग्ने तत् त्वया
पुनस् त्वोद् दीपयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ पुनस् त्वादित्या रुद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
पुनस् त्वादित्या रुद्रा वसवः
पुनर् ब्रह्मा वसुनीतिर् अग्रे ।
पुनस् त्वा ब्रह्मणस्पतिर् आधाद्
दीर्घायुत्वाय शतशारदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनस् त्वादित्या रुद्रा वसवः
पुनर् ब्रह्मा वसुनीतिर् अग्रे ।
पुनस् त्वा ब्रह्मणस्पतिर् आधाद्
दीर्घायुत्वाय शतशारदाय ॥
सर्वाष् टीकाः ...{Loading}...
०७ यो अग्निः क्रव्यात्
विश्वास-प्रस्तुतिः ...{Loading}...
यो अग्निः क्रव्यात् प्रविवेश वो गृहम्
इमं पश्यन्न् इतरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं
स घर्मम् इन्धत् परमे सधस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अग्निः क्रव्यात् प्रविवेश वो गृहम्
इमं पश्यन्न् इतरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं
स घर्मम् इन्धत् परमे सधस्थे ॥
सर्वाष् टीकाः ...{Loading}...
०८ क्रव्यादम् अग्निं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
क्रव्यादम् अग्निं प्र हिणोमि दूरं
यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा
देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रव्यादम् अग्निं प्र हिणोमि दूरं
यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा
देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥
सर्वाष् टीकाः ...{Loading}...
०९ क्रव्यादम् अग्निम् इषितो
विश्वास-प्रस्तुतिः ...{Loading}...
क्रव्यादम् अग्निम् इषितो हरामि
जनान् द्रुहन्तं वज्रेण मृत्युम् ।
वि तं शास्मि गार्हपत्येन विद्वान्
पितॄणां लोके अपि भागो अस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रव्यादम् अग्निम् इषितो हरामि
जनान् द्रुहन्तं वज्रेण मृत्युम् ।
वि तं शास्मि गार्हपत्येन विद्वान्
पितॄणां लोके अपि भागो अस्य ॥
सर्वाष् टीकाः ...{Loading}...
१० क्रव्यादम् अग्निं शसमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्रव्यादम् अग्निं शसमानम् उक्थ्यं
प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पथिभिर् आ गा
अत्रैवैधि पितृषु जागृहि त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्रव्यादम् अग्निं शसमानम् उक्थ्यं
प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पथिभिर् आ गा
अत्रैवैधि पितृषु जागृहि त्वम् ॥