०३५

सर्वाष् टीकाः ...{Loading}...

०१ अथाहीना आश्वत्थिर् अब्रवीन्

विश्वास-प्रस्तुतिः ...{Loading}...

अथाहीना आश्वत्थिर् अब्रवीन्
न ताद् ब्राह्मणं निन्दानि याद् एनम् अशृणोन्
नेद् इष्टापूर्तेन वि भवानीति ॥

०२ कृत्या वा एषा

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्या वा एषा मनुष्येषु चरति
यद् अनड्वान् यद् अनडुद्व्रती ॥

०३ य एवं विदुषो

विश्वास-प्रस्तुतिः ...{Loading}...

य एवं विदुषो ऽसाधु कीर्तयति-
-इष्टम् एवास्य पूर्तं मायां सं वृक्ते ॥

०४ इन्द्रो वा अग्रे

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो वा अग्रे असुरेष्व् अनडुद्व्रतम् अचरत् +++(Bhatt. vāgre)+++
तेषाम् इष्टं पूर्तं मायां संवृक्तानिन्द्रं ह्य् एनम् ॥

०५ सो ऽनडुहो वहे

विश्वास-प्रस्तुतिः ...{Loading}...

सो ऽनडुहो वहे ऽक्रमत
सर्वाल्ँ लोकान् प्राजानात् ॥

०६ याव् अस्य पूर्वपादौ

विश्वास-प्रस्तुतिः ...{Loading}...

याव् अस्य पूर्वपादौ तौ पूर्वपक्षौ
याव् अपरपादौ ताव् अपरपक्षौ ॥

०७ याव् अस्यौष्ठौ तौ

विश्वास-प्रस्तुतिः ...{Loading}...

याव् अस्यौष्ठौ तौ पुरोडाशौ +++(Bhatt. asyoṣṭḥau)+++
ये नासिके तौ स्रुवौ ॥

०८ ये अस्याक्षौ तौ

विश्वास-प्रस्तुतिः ...{Loading}...

ये अस्याक्षौ तौ सूर्याचन्द्रमसौ
ये निमेषास् तान्य् अहोरात्राणि
यानि वक्षणानि ते सूर्यस्य रश्मयः सः (…) ॥

०९ द्रोणकलशः शिरः सोमो

विश्वास-प्रस्तुतिः ...{Loading}...

द्रोणकलशः शिरः सोमो राजा मस्तिष्कः ॥

१० ये अस्य शृङ्गे

विश्वास-प्रस्तुतिः ...{Loading}...

ये अस्य शृङ्गे तद् ऋतं सत्यम् ॥

११ ध्रुवं वा ऋतम्

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवं वा ऋतं सत्यं तस्माद् एते ध्रुवे ॥

१२ ध्रुवम् एव र्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवम् एव र्तं सत्यम् अनु प्रति तिष्ठति
यः (…) ॥ +++(see 17.27.4b)+++