०२५

सर्वाष् टीकाः ...{Loading}...

०१ द्यावापृथिवी अहोरात्रे नक्षत्रपेशः

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावापृथिवी अहोरात्रे नक्षत्रपेशः ।
इदम् अहम् अमुष्मिन्न् आमुष्यायणे ऽमुष्याः पुत्रे दुष्वप्न्यं व्रजेत् ॥

०२ यद् अस्मास्व् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्मास्व् इत्य् आष्टादशकी ॥

०३ मा प्र गाम

विश्वास-प्रस्तुतिः ...{Loading}...

मा प्र गाम पथो वयं
मा यज्ञाद् इन्द्र सोमिनः ।
मान्त स्थुर् नो अरातयः ॥

०४ यो यज्ञस्य प्रसाधनस्

विश्वास-प्रस्तुतिः ...{Loading}...

यो यज्ञस्य प्रसाधनस्
तन्तुर् देवेष्व् आततः ।
तम् आहुतम् अशीमहि ॥

०५ नमो मित्रस्य वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

नमो मित्रस्य वरुणस्य चक्षसे
महो देवाय तद् ऋतं सपर्यत ।
दूरेदृशे देवजाताय केतवे
दिवस् पुत्राय सूर्याय शंसत ॥

०६ द्यावा च तत्र

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा च तत्र तततनन्न् अहानि च
न ते अदेवः प्रदिवो वि वासति ।
यद् एतशेभिः प्रतरै रथर्यसि
प्राचीनम् अन्यद् अनु वर्तते रज
उद् अन्येन ज्योतिषा यासि सूर्य ॥

०७ येन सूर्य ज्योतिषा

विश्वास-प्रस्तुतिः ...{Loading}...

येन सूर्य ज्योतिषा बाधसे तमो +++(Bhatt. vādhase)+++
जगच् च विश्वम् अभीयर्षि भानुना ।
तेनास्मद् विश्वाम् अनिराम् अनाहुतिम्
अपामीवाम् अप दुष्वप्न्यं सुव ॥

०८ विश्वाम् अनिराम् अमीवाम्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वाम् अनिराम् अमीवाम् अनाहुतिम्
अमुष्मा आमुष्यायणायामुष्याः पुत्राय प्र हिण्मः ॥