०२३

सर्वाष् टीकाः ...{Loading}...

०१ तद् आपः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

तद् आपः प्र वहत-
-अवद्यं च मलं च यत् ।
यद् दुष्वप्न्यम् आरिम
यद् ऋचानृतम् ऊदिम ॥

०२ आपः सप्त स्रवन्तीस्

विश्वास-प्रस्तुतिः ...{Loading}...

आपः सप्त स्रवन्तीस्
ता नो मुञ्चंत्व् अंहसः ॥

०३ मुञ्चन्तु मा शपथ्याद्

विश्वास-प्रस्तुतिः ...{Loading}...

मुञ्चन्तु मा शपथ्याद्
अथो वरुण्याद् उत ।
अथो यमस्य पड्बीशाद्
विश्वस्माद् देवदुष्कृतात् ॥

०४ जामिशंसाद् दुष्वप्न्याद् द्रुहो

विश्वास-प्रस्तुतिः ...{Loading}...

जामिशंसाद् दुष्वप्न्याद्
द्रुहो मा मुञ्चन्तु वरुणस्य पाशात् ॥

०५ मह्यम् इन्द्रो वरुणो

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यम् इन्द्रो वरुणो बृहस्पतिः सविता वर्च आदधन् ॥

०६ भ्रातृव्यहं सपत्नहम् असौ

विश्वास-प्रस्तुतिः ...{Loading}...

भ्रातृव्यहं सपत्नहम् असौ मे भ्रातृभ्यो ऽसौ सपत्नः ॥

०७ तं हन्मि तम्

विश्वास-प्रस्तुतिः ...{Loading}...

तं हन्मि तं दुःस्वप्न्येन विध्यामि
तम् अनायुष्टया विध्यामि
तं क्षपितायव्येन विध्यामि
तम् अधराञ्चं मृत्युपथम् अभ्यप नुदामि ॥