०१९

सर्वाष् टीकाः ...{Loading}...

०१ मनसा सङ्कल्पयति तद्

विश्वास-प्रस्तुतिः ...{Loading}...

मनसा संकल्पयति
तद् देवाँ अपि गच्छति ।
अथो ह ब्रह्माणो वशाम्
उपप्रयन्ति याचितुम् ॥

०२ स्वधाकारेण पितृभ्यो यज्ञेन

विश्वास-प्रस्तुतिः ...{Loading}...

स्वधाकारेण पितृभ्यो
यज्ञेन देवताभ्यः ।
दानेन राजन्यो वशाया
मातुर् हेडं न गच्छति ॥

०३ वशा राजन्य ते

विश्वास-प्रस्तुतिः ...{Loading}...

वशा राजन्य ते माता
तथा संभूतम् अग्रशः ।
तस्या आहुर् अनर्पणं
य ब्रह्मभ्यः प्रदीयते ॥

०४ यथाज्यं प्रतिगृहीतम् आलुम्पेत्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाज्यं प्रतिगृहीतम्
आलुम्पेत् स्रुचो अग्नये ।
एवा ह ब्रह्माणो वशाम्
आग्नये वृश्चते ऽदधत् ॥ +++(read ‘dadat)+++

०५ पुरोडाशवत्सा सुदुघा लोके

विश्वास-प्रस्तुतिः ...{Loading}...

पुरोडाशवत्सा सुदुघा
लोके अस्योप तिष्ठति ।
सास्मै सर्वान् कामान् दुहे
वशा प्रददुषे बहून् ॥

०६ सर्वान् कामान् यमराज्ये

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वान् कामान् यमराज्ये
वशा प्रददुषे दुहे ।
अथाहुर् नारकं लोकं
निरुन्धानस्य याचिताम् ॥

०७ प्रवीयमाना चरति क्रुद्धा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रवीयमाना चरति
क्रुद्धा गोपतये वशा ।
वेहतं मा मन्यमानो
मृत्योः पाशेषु बध्यताम् ॥

०८ यो वेहतं मन्यमानो

विश्वास-प्रस्तुतिः ...{Loading}...

यो वेहतं मन्यमानो
गृहेषु पचते वशाम् ।
अप्य् अस्य पुत्रान् पौत्रांश् च
याचयते बृहस्पतिः ॥

०९ महद् एषा वि

विश्वास-प्रस्तुतिः ...{Loading}...

महद् एषा वि तपति
चरन्ती गोषु गौर् अपि ।
ततो ह गोपतये वशा
ददुषे विषं दुहे ॥

१० प्रियं पशूनां भवति

विश्वास-प्रस्तुतिः ...{Loading}...

प्रियं पशूनां भवति
यद् ब्रह्मभ्यः प्रदीयते ।
अतो वशायास् तत् प्रियं
यद् देवत्रा हविः स्यात् ॥