०१८

सर्वाष् टीकाः ...{Loading}...

०१ हेडं पशूनां न्य्

विश्वास-प्रस्तुतिः ...{Loading}...

हेडं पशूनां न्य् एति
ब्राह्मणेभ्यो ऽददद् वशाम् ।
देवानां निहितं भागं
मर्त्यश् चेन् निप्रियायते ॥

०२ यद् अन्ये शतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अन्ये शतं याचेयुर्
ब्राह्मणा गोपतिं वशाम् ।
अथैता देवा अब्रुवन्न्
एवं ह विदुषो वशा ॥

०३ य एवं विदुषे

विश्वास-प्रस्तुतिः ...{Loading}...

य एवं विदुषे ऽदत्त्वा-
-अन्यस्मै ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने
पृथिवी सहदेवता ॥

०४ देवा वशाम् अयाचन्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा वशाम् अयाचन् (Bhatt. ayācaṃ)
यस्मिन्न् अग्रे अजायत ।
ताम् एतां विद्यान् नारदः
सह देवैर् उद् आजत ॥

०५ अनपत्यम् अल्पपशुं वशा

विश्वास-प्रस्तुतिः ...{Loading}...

अनपत्यम् अल्पपशुं
वशा कृणोतु पूरुषम् ।
ब्राह्मणैश् च याचिताम्
अथैनां नि प्रियायते ॥

०६ अग्नीषोमाभ्यां कामाय मित्राय

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नीषोमाभ्यां कामाय
मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्
तेभ्य आ वृश्चते ऽदधत् ॥ (read ‘dadat)

०७ यावद् अस्या गोपतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् अस्या गोपतिर् न-
-उपशृणुयाद् ऋचः स्वयम् । (Bhatt. ṛca(ḥ))
चरेद् अस्य तावद् गोषु
नास्य श्रुता गृहे स्यात् ॥

०८ यो अस्या ऋच

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्या ऋच उपश्रुत्य-
-अथ गोष्व् अचीचरत् ।
आयुश् च तस्य भूतिं च
देवा वृश्चन्ति हीडिताः ॥

०९ वशा चरन्ती बहुधा

विश्वास-प्रस्तुतिः ...{Loading}...

वशा चरन्ती बहुधा
देवानां निहितो निधिः ।
आविष्कृणुते रूपाणि
यथा स्थाम जिगांसति ॥

१० आविर् आत्मानं कृणुते

विश्वास-प्रस्तुतिः ...{Loading}...

आविर् आत्मानं कृणुते
यथा स्थाम जिगांसति ।
अथो ह ब्रह्मभ्यो वशा
याक्याय कृणुते मनः ॥