०१७

सर्वाष् टीकाः ...{Loading}...

०१ य एनां वनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

य एनां वनिम् आयन्ति
तेषां देवकृता वशा ।
ब्रह्मज्येयं तद् अब्रुवन्
य एनां निप्रियायते ॥

०२ य एनां याचद्भ्य

विश्वास-प्रस्तुतिः ...{Loading}...

य एनां याचद्भ्य
आर्षेयेभ्यो न दित्सति ।
आ स देवेषु वृश्चते
ब्राह्मनानां च मन्यवे ॥

०३ यस्यान्यः स्याद् वशाभोगो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यान्यः स्याद् वशाभोगो +++(Bhatt. yasyānya(ḥ))+++
अन्याम् इच्छेत तर्हि सः ।
हिंस्याद् अदत्ता गोपतिं
याचितां च न दित्सति ॥

०४ यथा शेवधिर् निहितो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा शेवधिर् निहितो
ब्राह्मणानां तथा वशा ।
ताम् एतद् आ यन्ति
यस्मिन् कस्मिंश् च जायते ॥

०५ स्वम् एतद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

स्वम् एतद् आ यन्ति
यद् वशां ब्राह्मणा अभि ।
यथैतान् अन्यज् जिनीयाद्
एवास्यानिरोधनम् ॥

०६ चरेद् एवा त्रैहायणाद्

विश्वास-प्रस्तुतिः ...{Loading}...

चरेद् एवा त्रैहायणाद्
अविज्ञातगदा सती ।
वशां च विद्यान् नारद
ब्राह्मणस् तर्ह्य् एष्यः ॥

०७ य एनाम् अवशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

य एनाम् अवशाम् आह
देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ
परिक्रम्येषुम् अस्यतः ॥

०८ दुरदभ्नैनम् आ शये

विश्वास-प्रस्तुतिः ...{Loading}...

दुरदभ्नैनम् आ शये
याचितां च न दित्सति ।
नास्मै कामः सम् ऋध्यते
यम् अदत्त्वा चिकीर्षति ॥

०९ यो अस्या ऊधो

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्या ऊधो न वेद-
-अथो अस्या स्तनान् उत ।
उभयेनैवैनां दुहे
दातुं चेद् अशकद् वशाम् ॥

१० देवा वशां याचन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

देवा वशां याचन्ति
मुखं कृत्वा ब्रह्मणम् ।
तेषां सर्वेषाम् अददद् +++(Bhatt. aga(⟨ da)dad)+++
धेडं न्य् एति मानुषः ॥