०१६

सर्वाष् टीकाः ...{Loading}...

०१ ददामीत्य् एव ब्रूयाद्

विश्वास-प्रस्तुतिः ...{Loading}...

ददामीत्य् एव ब्रूयाद्
अनु चैनाम् अभुत्सत ।
वशां ब्रह्मभ्यो याचद्भ्यस्
तत् प्रजावद् अपत्यवत् ॥

०२ प्रजया स वि

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजया स वि क्रीणीते +++(Bhatt. su)+++
पशुभिश् चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो
देवानां गां न दित्सति ॥

०३ कूटयास्य सं शीर्यन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

कूटयास्य सं शीर्यन्ते
श्रोणया काटम् अर्दति ।
बण्डया दह्यन्ते गृहाः
काणया जीयते स्वम् ॥

०४ विलोहितो अधिष्ठानाच् छक्नो

विश्वास-प्रस्तुतिः ...{Loading}...

विलोहितो अधिष्ठानाच्
छक्नो विन्दति गोपतिम् ।
तथा वशायाः सांविद्यं
दुरदभ्ना ह्य् उच्यसे ॥

०५ यो अस्याः कर्णाव्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्याः कर्णाव् आस्कुनोत्य्
आ स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते
कनीयः कृणुते स्वम् ॥

०६ पदोर् अस्या अधिष्ठानाद्

विश्वास-प्रस्तुतिः ...{Loading}...

पदोर् अस्या अधिष्ठानाद्
विक्लिन्दुर् नाम विन्दति ।
अनामनात् सं शीर्यन्ते
या मुखेनोपजिघ्रति ॥

०७ यद् अस्या गोपतौ

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्या गोपतौ सत्या
लोम ध्वाङ्क्षो अजीहिडत् ।
ततः किशोरा म्रियन्ते
वत्सांश् च घातुको वृकः ॥

०८ यद् अस्याः कस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्याः कस्मै चिद् भोगाय
बालान् कश् चित् प्र कृन्तति ।
ततः कुमारा म्रियन्ते
यक्ष्मश् छन्त्सत्य् अनामनात् ॥

०९ यद् अस्याः पल्पुलनाय

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्याः पल्पुलनाय
शकृद् दासी समस्यति । +++(Bhatt. sa(⟨ śa)kṛd)+++
ततो ऽपिरूपं जायते
तस्माद् अव्येष्यद् एनसः ॥

१० जायमानाभि जायते देवान्

विश्वास-प्रस्तुतिः ...{Loading}...

जायमानाभि जायते
देवान् सब्राह्मणान् वशा ।
तस्माद् ब्रह्मभ्यो देयैषा
तद् आहुः स्वस्य गोपनम् ॥