सर्वाष् टीकाः ...{Loading}...
०१ याः कुमारीर् याः
विश्वास-प्रस्तुतिः ...{Loading}...
याः कुमारीर् याः स्थविरा
युवतीर् याः सदान्वाः ।
सर्वा यन्तु कुरूटिनीः
कुलीनाधेनु सर्पत्व्
अरायीर् अभिभा इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः कुमारीर् याः स्थविरा
युवतीर् याः सदान्वाः ।
सर्वा यन्तु कुरूटिनीः
कुलीनाधेनु सर्पत्व्
अरायीर् अभिभा इतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ताभ्यो रुद्रो विसृजत्
विश्वास-प्रस्तुतिः ...{Loading}...
ताभ्यो रुद्रो विसृजत् +++(Bhatt. visṛja(t))+++
त्विषिम् अध्वगघातिनीम् ।
ता अस्ता हन्तु विद्युता
वज्रेणानपराधिना ।
तासां त्वं शक्र मोच् छिष
इन्द्र भण्वाः फलीकुरु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ताभ्यो रुद्रो विसृजत् +++(Bhatt. visṛja(t))+++
त्विषिम् अध्वगघातिनीम् ।
ता अस्ता हन्तु विद्युता
वज्रेणानपराधिना ।
तासां त्वं शक्र मोच् छिष
इन्द्र भण्वाः फलीकुरु ॥
सर्वाष् टीकाः ...{Loading}...
०३ कुमारान् एका स्थवीरान्
विश्वास-प्रस्तुतिः ...{Loading}...
कुमारान् एका स्थवीरान्
या अदन्ति प्रखादिनीः ।
ता इन्द्रो हन्तु वृत्रहा
या देवो विश्वाद् रक्षांसि सेधति ॥
मूलम् ...{Loading}...
मूलम् (GR)
कुमारान् एका स्थवीरान्
या अदन्ति प्रखादिनीः ।
ता इन्द्रो हन्तु वृत्रहा
या देवो विश्वाद् रक्षांसि सेधति ॥
सर्वाष् टीकाः ...{Loading}...
०४ याश् च दासीर्
विश्वास-प्रस्तुतिः ...{Loading}...
याश् च दासीर् असुराणां
मनुष्येभ्यश् च याः कृताः ।
उभयीस् ताः परा यन्तु
परावतं नवतिं नाव्या अति ॥
मूलम् ...{Loading}...
मूलम् (GR)
याश् च दासीर् असुराणां
मनुष्येभ्यश् च याः कृताः ।
उभयीस् ताः परा यन्तु
परावतं नवतिं नाव्या अति ॥
सर्वाष् टीकाः ...{Loading}...
०५ यासां घोषः सङ्गतानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यासां घोषः संगतानां
वृकाणाम् इव गङ्गणः ।
प्रचङ्कशामैवहरां
प्रयच्छन्तीं प्रतिग्रहां
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां घोषः संगतानां
वृकाणाम् इव गङ्गणः ।
प्रचङ्कशामैवहरां
प्रयच्छन्तीं प्रतिग्रहां
नाशयामः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यानि सायं यथास्थामाद्
विश्वास-प्रस्तुतिः ...{Loading}...
यानि सायं यथास्थामाद्
रात्रीं यक्षाणि प्रेरते ।
अग्निष् टा सर्वा साहन्त्यो
विश्वाद् रक्षांसि सेधतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि सायं यथास्थामाद्
रात्रीं यक्षाणि प्रेरते ।
अग्निष् टा सर्वा साहन्त्यो
विश्वाद् रक्षांसि सेधतु ॥
सर्वाष् टीकाः ...{Loading}...
०७ या ऋक्षीकाः कलीलान्दा
विश्वास-प्रस्तुतिः ...{Loading}...
या ऋक्षीकाः कलीलान्दा-
-अप्सु जाताः पुलीकयाः ।
गोपा आसाम् एको वेद
यतो जाताः सदान्वास्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ऋक्षीकाः कलीलान्दा-
-अप्सु जाताः पुलीकयाः ।
गोपा आसाम् एको वेद
यतो जाताः सदान्वास्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ गुरुच्छायाम् ऊर्धार्यं शिशुमाकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
गुरुच्छायाम् ऊर्धार्यं
शिशुमाकां प्रतिश्रुकाम् ।
अतिदुह्नां विचलन्तीं वितूलुमाम् ।
सर्वाश् चण्डस्य नप्त्यो
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
गुरुच्छायाम् ऊर्धार्यं
शिशुमाकां प्रतिश्रुकाम् ।
अतिदुह्नां विचलन्तीं वितूलुमाम् ।
सर्वाश् चण्डस्य नप्त्यो
नाशयामः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०९ आवदन्तीं नामहूकां तंस्तनीकाम्
विश्वास-प्रस्तुतिः ...{Loading}...
आवदन्तीं नामहूकां
तंस्तनीकां वृङ्क्तपदीम् ।
उद्रदन्तीम् अनासिकां
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आवदन्तीं नामहूकां
तंस्तनीकां वृङ्क्तपदीम् ।
उद्रदन्तीम् अनासिकां
नाशयामः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
१० वावदाकाम् अल्भषासां विजव्राम्
विश्वास-प्रस्तुतिः ...{Loading}...
वावदाकाम् अल्भषासां
विजव्रां लब्रुवं लवुम् ।
अरायीं वाचमेजयां
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वावदाकाम् अल्भषासां
विजव्रां लब्रुवं लवुम् ।
अरायीं वाचमेजयां
नाशयामः सदान्वाः ॥