सर्वाष् टीकाः ...{Loading}...
०१ दुःसङ्काशे भीमचक्षो नग्ने
विश्वास-प्रस्तुतिः ...{Loading}...
दुःसंकाशे भीमचक्षो +++(Bhatt. duḥśaṅkāśe)+++
नग्ने भण्वे सदान्वे
ध्राजिं त्विषिं शुचिम् अग्निम्
अरायि किम् इहेच्छसे ।
धूमं माभि प्र गायि
नि स्तौषामि सदान्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुःसंकाशे भीमचक्षो +++(Bhatt. duḥśaṅkāśe)+++
नग्ने भण्वे सदान्वे
ध्राजिं त्विषिं शुचिम् अग्निम्
अरायि किम् इहेच्छसे ।
धूमं माभि प्र गायि
नि स्तौषामि सदान्वे ॥
सर्वाष् टीकाः ...{Loading}...
०२ कङ्क्येका प्रखिदैका किम्
विश्वास-प्रस्तुतिः ...{Loading}...
कङ्क्येका प्रखिदैका
किम् इच् छान्त्यभिश्रया ।
चरन्ति नक्तं दुर्णाम्नो
अरायीः सूतिकैष्यस् +++(Bhatt. rāyī(ḥ))+++
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
कङ्क्येका प्रखिदैका
किम् इच् छान्त्यभिश्रया ।
चरन्ति नक्तं दुर्णाम्नो
अरायीः सूतिकैष्यस् +++(Bhatt. rāyī(ḥ))+++
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अपक्रथाम् अभिश्रयाम् आनृत्यन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपक्रथाम् अभिश्रयाम्
आनृत्यन्तीं कुतूहलाम् ।
कुसूलीं रथभञ्जनीं
खलाज् जातास् त्रिकूक्वस्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपक्रथाम् अभिश्रयाम्
आनृत्यन्तीं कुतूहलाम् ।
कुसूलीं रथभञ्जनीं
खलाज् जातास् त्रिकूक्वस्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ या विकेशीर् उन्मदित्या
विश्वास-प्रस्तुतिः ...{Loading}...
या विकेशीर् उन्मदित्या-
-उररा घोरचक्षवः ।
शीर्शाण्य् अन्या अन्यासां
वितावन्तीर् इवासते
सदान्वा ब्रह्मणस्पते
परो भ्रूणान्य् अर्पय ॥
मूलम् ...{Loading}...
मूलम् (GR)
या विकेशीर् उन्मदित्या-
-उररा घोरचक्षवः ।
शीर्शाण्य् अन्या अन्यासां
वितावन्तीर् इवासते
सदान्वा ब्रह्मणस्पते
परो भ्रूणान्य् अर्पय ॥
सर्वाष् टीकाः ...{Loading}...
०५ यासां गन्धो नानारूपः
विश्वास-प्रस्तुतिः ...{Loading}...
यासां गन्धो नानारूपः
पर्यैति पुरुषं पथि ।
ता अग्निः सहताम् इतो
जातवेदाः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां गन्धो नानारूपः
पर्यैति पुरुषं पथि ।
ता अग्निः सहताम् इतो
जातवेदाः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ याः पुरुषं दह्यमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरुषं दह्यमानं
शून्यम् अग्नौ जिघत्सन्ति ।
भण्वा निष्कुष्टा नामासि
मुष्टाग्रेण सदान्वास्
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरुषं दह्यमानं
शून्यम् अग्नौ जिघत्सन्ति ।
भण्वा निष्कुष्टा नामासि
मुष्टाग्रेण सदान्वास्
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ या उचिता आवपने
विश्वास-प्रस्तुतिः ...{Loading}...
या उचिता आवपने
शुष्कं खादन्ति मष्मसं
वडवा गर्दभीर् इव ।
नाशयामः सदान्वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या उचिता आवपने
शुष्कं खादन्ति मष्मसं
वडवा गर्दभीर् इव ।
नाशयामः सदान्वाः ॥
सर्वाष् टीकाः ...{Loading}...
०८ गर्भान् एकः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
गर्भान् एकः प्रति मोर्शं +++(Bhatt. emend. mṛśaṃ?)+++
या अदन्ति सदान्वाः ।
उचितास् तन्वं स्त्रिया
गाव आ रोहिणीर् इव
ता इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गर्भान् एकः प्रति मोर्शं +++(Bhatt. emend. mṛśaṃ?)+++
या अदन्ति सदान्वाः ।
उचितास् तन्वं स्त्रिया
गाव आ रोहिणीर् इव
ता इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ याः पितृयात् सम्भवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पितृयात् संभवन्ति-
-इन्द्रजा नः सदान्वाः ।
अप मित्यम् इवाभृतं
पुनस् ता प्रति दद्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पितृयात् संभवन्ति-
-इन्द्रजा नः सदान्वाः ।
अप मित्यम् इवाभृतं
पुनस् ता प्रति दद्मसि ॥
सर्वाष् टीकाः ...{Loading}...
१० आमादिनीः क्रूरादिनीर् अनग्निगन्ध्यादिनीः
विश्वास-प्रस्तुतिः ...{Loading}...
आमादिनीः क्रूरादिनीर्
अनग्निगन्ध्यादिनीः ।
अमुं परेत्योद्धितं
शवम् अत्त सदान्वाः ।
शवः केवल आचारः
किम् उ शालास्व् इच्छथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
आमादिनीः क्रूरादिनीर्
अनग्निगन्ध्यादिनीः ।
अमुं परेत्योद्धितं
शवम् अत्त सदान्वाः ।
शवः केवल आचारः
किम् उ शालास्व् इच्छथ ॥