०१३

सर्वाष् टीकाः ...{Loading}...

०१ या धान्यात् सम्भवन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

या धान्यात् संभवन्ति
क्षेत्राद् उप्ताद् वर्पितात ।
कृताद् अभिप्रहाय्या
नश्यतेतः सदान्वाः ॥

०२ याः पुरुषाः पापगन्धाः

विश्वास-प्रस्तुतिः ...{Loading}...

याः पुरुषाः पापगन्धाः
सदा रुक्षा विसृक्पदी ।
ता वज्रेण समर्पयन्
निरजेतः शचीपते ॥

०३ उत् तिष्ठत निर्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठत निर् द्रवत
न व इहास्ति न्यञ्चनम् ।
इन्द्रो वः सर्वासां साकं
गर्भान् आण्डानि भेत्स्यति ॥

०४ इन्द्र जहि स्थूलशङ्खाम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र जहि स्थूलशंखां
मृणीहि दुर्णशीं कुहम् ।
अरायीं शकधूम्यं
नाशयामः सदान्वाः ॥

०५ किम् आसुतां नग्नह्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

किम् आसुतां नग्नह्वम्
अजमायुं च निघ्नतीम् ।
विटिटिङ्गाः प्रतोदिनीर्
नाशयामः सदान्वाः ॥

०६ यस्यासुतं रन्धयध्वे यूयम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यासुतं रन्धयध्वे
यूयं भण्वाः सदान्वाः ।
तृष्टं कृणुताण्डरं
यदा रसेन तृप्यत-
-आत् सुराम् अव मेहथ ॥ (Bhatt. me hatha)

०७ तस्याः पीत्वावमक्त्य् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

तस्याः पीत्वावमक्त्य्
अथो शीर्षक्त्य् आ शये ।
ता एकान्नदूषणीर्
नाशयामः सदान्वाः ॥

०८ अपारोगाञ् छकधूमान् वृक्षाणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपारोगाञ् छकधूमान्
वृक्षाणां यन्तु सत्वरम् ।
अथो दुर्हार्दसो गृहं
प्र मृशन्त्व् अराय्यः ॥

०९ तासाम् एकाच्छवका शङ्कावङ्का

विश्वास-प्रस्तुतिः ...{Loading}...

तासाम् एकाच्छवका
शङ्कावङ्का वनेकृकुर्
हसनैका कनिक्रदा ।
सर्वासां भण्वा वः साकं
नामधेयानि विद्मसि ।
यति जातानि वस् तति
नश्यतेतः सदान्वाः ॥

१० सहस्वतीं प्र हरामि

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्वतीं प्र हरामि-
इमां शालां विषासहिम् ।
सदान्वाघ्नीम् ओषधिं
जैत्रायाच्छा वदामसि ॥