०१२

सर्वाष् टीकाः ...{Loading}...

०१ अन्तःपात्रे रेरिहति दूर्शे

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तःपात्रे रेरिहति
दूर्शे दुर्निहितैषिणि । (Selva 2019, 56; Bhatt. duḥśe durni°)
उरुण्डे अभिचङ्क्रमे
वक्मके बस्तवासिनि
सर्वासां भण्वा वः साकं
नामधेयानि विद्मसि ।
यति जातानि वस् तति (emend. Bhatt.)
नश्यतेतः सदान्वाः ॥

०२ कर्णा दृषद्रथामहम् उरुकीम्

विश्वास-प्रस्तुतिः ...{Loading}...

कर्णा दृषद्रथामहम्
उरुकीं केशिनीं क्रकुम् ।
खडुरीम् अम्बरीष्यं
नाशयामः सदान्वाः ॥ प्रपाठक ॥

०३ पण्डुगिरां फालदतीम् असंसूक्तनिगारिणीम्

विश्वास-प्रस्तुतिः ...{Loading}...

पण्डुगिरां फालदतीम्
असंसूक्तनिगारिणीम् ।
असाताः सर्वा वो ब्रूमो
नश्यतेतः सदान्वाः ॥

०४ याः शयानं जम्भयन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

याः शयानं जम्भयन्ति
नक्तम् इच्छन्त्य् आतुरम् ।
अथो जनस्य सुप्तस्य
मुखा हस्तात् प्र रिहन्ति (Bhatt. ruhanti)
दत्सु दत्कवनोचितास्
ता इतो नाशयामसि ॥

०५ आपतन्तीर् विक्षिणाना वस्तगन्धाः

विश्वास-प्रस्तुतिः ...{Loading}...

आपतन्तीर् विक्षिणाना
वस्तगन्धाः सदान्वाः ।
भण्वा (अ)सिना तोत्स्यामि
तीक्ष्णशृङ्ग इवर्षभः ॥

०६ सदान्वाः सादान्वेयां स्त्रीपुंसाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सदान्वाः सादान्वेयां
स्त्रीपुंसाꣳ उभयान् सह ।
सहे सहस्वान् सहसा
वि मृधो हन्मि रक्षसः ॥ (Bhatt. vimṛdho)

०७ चतुर्दंष्ट्रान् कुम्भमुष्कान् दीर्घकेशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुर्दंष्ट्रान् कुम्भमुष्कान्
दीर्घकेशाꣳ असृन्मुखान् ।
अलाबुगन्धीन् उन्दुरान्
दुर्णाम्नो नाशयामसि ॥

०८ स्तम्बे जाता अधि

विश्वास-प्रस्तुतिः ...{Loading}...

स्तम्बे जाता अधि बाले
रोदाकाꣳ रुदतीं त्वत् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥

०९ यासां जातानि क्रोशन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यासां जातानि क्रोशन्ति
भित्स्व् अन्तर् वने ज्वल
उप वृक्षेषु शेरते ।
(…) ॥ (see 8cd)

१० या वाताभ्र उत्पतिते

विश्वास-प्रस्तुतिः ...{Loading}...

या वाताभ्र उत्पतिते
चर्त्ता वर्षेण विद्युता
शाला इच्छन्ति सत्वरम् ।
दुर्णाम्नीः सर्वाः सन्तोका
नाशयामः सदान्वाः ॥