०११

सर्वाष् टीकाः ...{Loading}...

०१ अप तस्य तमो

विश्वास-प्रस्तुतिः ...{Loading}...

अप तस्य तमो हतं
व्यावृत्तः स पाप्मना ।
सर्वाणि तस्मिन् ज्योतींषि
यानि त्रीणि प्रजापतौ ॥

०२ यो वेतसं हिरण्ययम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वेतसं हिरण्ययं
तिष्ठन्तं सलिले वेद ।
स वै गुह्यः प्रजापतिः ॥

०३ न प्रजापतिम् अत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

न प्रजापतिम् अत्य् एति
नात्य् एति परमेष्ठिनम् ।
उतोत तत्र नो वृत
यज् ज्येष्ठं परो अत्ययत् ॥

०४ अस्ति वै तत्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्ति वै तत् परो भूमेर्
अस्ति वै तत् परो दिवः ।
लोका वै तस्मिन् संप्रोता
यस्मिन्न् ओताः प्रजा इमाः ॥