सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रे लोका इन्द्रे
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रे लोका इन्द्रे तप
इन्द्रे ऽध्य् ऋतम् आहितम् ।
इन्द्रं त्वा विद्म प्रत्यक्षं
स्कम्भे सर्वं समाहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रे लोका इन्द्रे तप
इन्द्रे ऽध्य् ऋतम् आहितम् ।
इन्द्रं त्वा विद्म प्रत्यक्षं
स्कम्भे सर्वं समाहितम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नाम नाम्ना जोहवीमि
विश्वास-प्रस्तुतिः ...{Loading}...
नाम नाम्ना जोहवीमि
पुरा सूर्यात् पुरोषसः ।
यद् अदः प्रथमं संबभूव
सह तत् स्वराज्यं जगाम
यस्मान् न परम् अस्ति भूतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाम नाम्ना जोहवीमि
पुरा सूर्यात् पुरोषसः ।
यद् अदः प्रथमं संबभूव
सह तत् स्वराज्यं जगाम
यस्मान् न परम् अस्ति भूतम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस्य भूमिः प्रमान्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य भूमिः प्रमान्तरिक्षम् उतोदरम् ।
दिवं यश् चक्रे मूर्धानं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य भूमिः प्रमान्तरिक्षम् उतोदरम् ।
दिवं यश् चक्रे मूर्धानं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस्य सूर्यश् चक्षुश्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य सूर्यश् चक्षुश्
चन्द्रमाश् च पुनर् नवः ।
अग्निं यश् चक्र आस्यं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य सूर्यश् चक्षुश्
चन्द्रमाश् च पुनर् नवः ।
अग्निं यश् चक्र आस्यं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्य वातः प्राणापानौ
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य वातः प्राणापानौ
चक्षुर् अङ्गिरसो ऽभुवन् । (Bhatt. bhuvaṃ)
दिशो यश् चक्रे प्रज्ञानीस्
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य वातः प्राणापानौ
चक्षुर् अङ्गिरसो ऽभुवन् । (Bhatt. bhuvaṃ)
दिशो यश् चक्रे प्रज्ञानीस्
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यः श्रमात् तपसो
विश्वास-प्रस्तुतिः ...{Loading}...
यः श्रमात् तपसो जातो
लोकान् सर्वान् समानशे ।
सोमं यश् चक्रे केवलं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः श्रमात् तपसो जातो
लोकान् सर्वान् समानशे ।
सोमं यश् चक्रे केवलं
तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ स्कम्भो दाधार पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्कम्भो दाधार पृथिवीं द्याम् उतामूं
स्कम्भो दाधारोर्व् अन्तरिक्षम् ।
स्कम्भो दाधार प्रदिशः षड् उर्वीः
स्कम्भ इदं विश्वं भुवनम् आ विवेश ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्कम्भो दाधार पृथिवीं द्याम् उतामूं
स्कम्भो दाधारोर्व् अन्तरिक्षम् ।
स्कम्भो दाधार प्रदिशः षड् उर्वीः
स्कम्भ इदं विश्वं भुवनम् आ विवेश ॥
सर्वाष् टीकाः ...{Loading}...
०८ कथं वातो नेलयति
विश्वास-प्रस्तुतिः ...{Loading}...
कथं वातो नेलयति
कथं न रमते मनः ।
किम् आपः सत्यं प्रेप्सन्तीः
प्र चङ्क्रमीति सर्वदा ॥ (Bhatt. caṃkramiti, emend. caṃkramati)
मूलम् ...{Loading}...
मूलम् (GR)
कथं वातो नेलयति
कथं न रमते मनः ।
किम् आपः सत्यं प्रेप्सन्तीः
प्र चङ्क्रमीति सर्वदा ॥ (Bhatt. caṃkramiti, emend. caṃkramati)
सर्वाष् टीकाः ...{Loading}...
०९ महद् यक्षं भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
महद् यक्षं भुवनस्य मध्ये
तपसि क्रान्तं सलिलस्य पृष्ठे ।
तस्मिं छ्रयन्ते य उ के च देवा
वृक्षस्य स्कम्भं परित इव शाखाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
महद् यक्षं भुवनस्य मध्ये
तपसि क्रान्तं सलिलस्य पृष्ठे ।
तस्मिं छ्रयन्ते य उ के च देवा
वृक्षस्य स्कम्भं परित इव शाखाः ॥
सर्वाष् टीकाः ...{Loading}...
१० यस्मै हस्ताभ्यां पादाभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मै हस्ताभ्यां पादाभ्यां
वाचा श्रोत्रेण चक्षुषा ।
यस्मै देवा सदा बलिं
प्रयच्छन्ति विमिते ऽमितं
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मै हस्ताभ्यां पादाभ्यां
वाचा श्रोत्रेण चक्षुषा ।
यस्मै देवा सदा बलिं
प्रयच्छन्ति विमिते ऽमितं
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥