००८

सर्वाष् टीकाः ...{Loading}...

०१ यत्र लोकाश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र लोकाश् च कोशाश् च
ब्रह्म यत्र जना विदुः ।
असच् च यत्र सच् चान्तः
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०२ यत्र तपः पराक्रम्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र तपः पराक्रम्य
ऋतं धारयत्य् उत्तरम् ।
व्रतं च यत्र श्रद्धा च
ब्रह्मापः समाहिताः
स्कम्भं (…) ॥

०३ यस्मिन् भूमिर् अन्तरिक्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् भूमिर् अन्तरिक्षं
द्यौर् अस्मिन्न् अध्याहिता ।
यत्राग्निश् चन्द्रमा सूर्यो
वातस् तिष्ठन्त्य् आर्पिताः
स्कम्भं (…) ॥

०४ यस्य त्रयस्त्रिंशद् देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य त्रयस्त्रिंशद् देवा
अङ्गे सर्वे समाहिताः ।
स्कम्भं (…) ॥

०५ यत्र ऋषयो भूतकृत

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र ऋषयो भूतकृत
ऋचः साम यजुर् मही ।
एकर्षिर् यस्मिन्न् आर्पिताः
स्कम्भं (…) ॥

०६ यस्य चतस्रः प्रदिशो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य चतस्रः प्रदिशो
नाड्यस् तिष्ठन्ति प्रप्यसाः ।
यज्ञो यस्मिन् पराक्रान्तः
स्कम्भं (…) ॥

०७ यत्रामृतं च मृत्युश्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रामृतं च मृत्युश् च
पुरुषश् च समाहिताः ।
समुद्रो यस्य नाड्यः
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०८ ये पुरुषे ब्रह्म

विश्वास-प्रस्तुतिः ...{Loading}...

ये पुरुषे ब्रह्म विदुस्
ते स्कम्भम् अनु सं विदुः ।
यो वेद परमेष्ठिनं
यश् च वेद प्रजापतिम् ।
ज्येष्ठं ये ब्राह्मणं विदुस्
ते स्कम्भम् अनु सं विदुः ॥

०९ यस्य शिरो वैश्वानरश्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य शिरो वैश्वानरश्
चक्षुर् अङ्गिरसो ऽभवन् । (Bhatt. cacakṣur, misprint?; aṅgirasobhavaṃ)
अङ्गानि यस्य यातवः
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥ (Bhatt. katama(ḥ))

१० यस्य ब्रह्म मुखम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य ब्रह्म मुखम् आहुर्
जिह्वां मधुकशाम् उत ।
विराजं यस्योध आहुः
स्कम्भं (…) ॥