००७

सर्वाष् टीकाः ...{Loading}...

०१ कस्मिन्न् अङ्गे तपो

विश्वास-प्रस्तुतिः ...{Loading}...

कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति
कस्मिन्न् अङ्ग ऋतम् अस्याध्याहितम् ।
क्व व्रतं क्व श्रद्धास्य तिष्ठति
कस्मिन्न् अङ्गे सत्यम् अस्य प्रतिष्ठितम् ॥

०२ क्व ब्रह्म क्व

विश्वास-प्रस्तुतिः ...{Loading}...

क्व ब्रह्म क्व तिष्ठन्त्य् आपः
कस्मिन्न् अङ्गे दिशो अस्य प्रतिष्ठिताः ।
कतमद् अङ्गम् अनु सं चरेते
अहोरात्रे संविदाने समानम् ॥

०३ कस्मिन्न् अङ्गे तिष्ठति

विश्वास-प्रस्तुतिः ...{Loading}...

कस्मिन्न् अङ्गे तिष्ठति भूमिर् अस्य
कस्मिन्न् अङ्गे तिष्ठत्य् अन्तरिक्षम् ।
कस्मिन्न् अङ्गे तिष्ठत्य् आहिता द्यौः
कस्मिन्न् अङ्गे तिष्ठत्य् उत्तरं दिवः ॥

०४ कस्माद् अङ्गाद् दीप्यते

विश्वास-प्रस्तुतिः ...{Loading}...

कस्माद् अङ्गाद् दीप्यते अग्निर् अस्य
कस्माद् अङ्गात् पवते मातरिश्वा ।
कस्माद् अङ्गाद् वि मिमीते ऽधि चन्द्रमाः
स्कम्भस्य महद् विमिमानो अङ्गम् ॥

०५ क्व प्रेप्सन् दीप्यत

विश्वास-प्रस्तुतिः ...{Loading}...

क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः
क्व प्रेप्सन् पवते मातरिश्वा ।
यत्र प्रेप्सन्तीर् अभियन्त्य् आवृतः
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०६ क्व प्रेप्सन्ती युवती

विश्वास-प्रस्तुतिः ...{Loading}...

क्व प्रेप्सन्ती युवती विरूपे
अहोरात्रे द्रवतः संविदाने ।
यत्र प्रेप्सन्तीर् अभियन्त्य् आपः
स्कम्भं (…) ॥

०७ क्वार्धमासाः क्व यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

क्वार्धमासाः क्व यन्ति मासाः
संवत्सरेण सह संविदानाः ।
यत्र यन्त्य् ऋतवो यत्रार्तवाः
स्कम्भं (…) ॥

०८ यस्मिन् स्कन्धा प्रजापतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् स्कन्धा प्रजापतिर् +++(Bhatt. emend. skabdhvā?)+++
लोकान् सर्वाँ अधारयत् ।
स्कम्भं तं ब्रूहि कतमः स्विद् एव सः ॥

०९ यत् परमम् अवमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् परमम् अवमं यच् च मध्यमं
प्रजापतिः ससृजे विश्वरूपम् ।
कियता स्कम्भः प्र विवेश तत्र
यन् न पार्विशत् क्व तद् बभूव ॥

१० कियता स्कम्भः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

कियता स्कम्भः प्र विवेश भूतं
कियद् भविष्यद् अन्वाशये ऽस्य ।
एकं यद् अङ्गम् अकृणोत् सहस्रधा
कियता स्कम्भः प्र विवेश तत्र ॥