सर्वाष् टीकाः ...{Loading}...
०१ द्यौश् च म
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौश् च म इदं पृथिवी च-
-अन्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां
विश्वे देवाश् च सं दधुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौश् च म इदं पृथिवी च-
-अन्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां
विश्वे देवाश् च सं दधुः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अहम् अस्मि सहमान
विश्वास-प्रस्तुतिः ...{Loading}...
अहम् अस्मि सहमान
उत्तरो नाम भूम्याम् ।
अभिसाड् अस्मि विश्वाषाड्
आशामाशां विषासहिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहम् अस्मि सहमान
उत्तरो नाम भूम्याम् ।
अभिसाड् अस्मि विश्वाषाड्
आशामाशां विषासहिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् अदो देवि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अदो देवि प्रथमाना पुरस्ताद्
देवैः सृष्टा व्यसर्पो महित्वम् ।
आ त्वा सुभूतम् अविशत् तदानीम्
अकल्पयथाः प्रदिशश् चतस्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अदो देवि प्रथमाना पुरस्ताद्
देवैः सृष्टा व्यसर्पो महित्वम् ।
आ त्वा सुभूतम् अविशत् तदानीम्
अकल्पयथाः प्रदिशश् चतस्रः ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये ग्रामा यान्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ग्रामा यान्य् अरण्यानि
याः सभा अधि भूम्याम् ।
तेष्व् अहं देवि पृथिव्य्
उद्यासं मधुमद् वचः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ग्रामा यान्य् अरण्यानि
याः सभा अधि भूम्याम् ।
तेष्व् अहं देवि पृथिव्य्
उद्यासं मधुमद् वचः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् वदानि मधुमत्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वदानि मधुमत् तद् वदानि
यद् ईक्षे षुतद्यः पुनन्तु मा ।
त्विषीमान् अस्मि जूतिमान् यान् हन्मि दोधतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वदानि मधुमत् तद् वदानि
यद् ईक्षे षुतद्यः पुनन्तु मा ।
त्विषीमान् अस्मि जूतिमान् यान् हन्मि दोधतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अश्व इव रजो
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व इव रजो दुदुहे वि तं जनं
य आक्षियन् पृथिवीम् आद् अजायत ।
मद्रा परि भुवनस्य गोपा
वनस्पतीनां गृभिर् ओषधीनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्व इव रजो दुदुहे वि तं जनं
य आक्षियन् पृथिवीम् आद् अजायत ।
मद्रा परि भुवनस्य गोपा
वनस्पतीनां गृभिर् ओषधीनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ शन्तिवा सुरभिः स्योना
विश्वास-प्रस्तुतिः ...{Loading}...
शन्तिवा सुरभिः स्योना
कीलालोध्नी पयस्वती ।
भूमिर् नो अधि ब्रवीतु
पृथिवी पयसा सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
शन्तिवा सुरभिः स्योना
कीलालोध्नी पयस्वती ।
भूमिर् नो अधि ब्रवीतु
पृथिवी पयसा सह ॥
सर्वाष् टीकाः ...{Loading}...
०८ भूमि मातर् नि
विश्वास-प्रस्तुतिः ...{Loading}...
भूमि मातर् नि धेहि मा
भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा त्वं
श्रियां मा धेहि भूत्याम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूमि मातर् नि धेहि मा
भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा त्वं
श्रियां मा धेहि भूत्याम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ याम् अन्वैच्छद् धविषा
विश्वास-प्रस्तुतिः ...{Loading}...
याम् अन्वैच्छद् धविषा विश्वकर्मा
यस्याम् आसन्न् अग्नयो ऽप्स्व् अन्तः ।
भुजिष्यं पात्रं निहितं गुहा-
-आसीद् आविर् भोगैर् अभवन् मातृमद्भिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याम् अन्वैच्छद् धविषा विश्वकर्मा
यस्याम् आसन्न् अग्नयो ऽप्स्व् अन्तः ।
भुजिष्यं पात्रं निहितं गुहा-
-आसीद् आविर् भोगैर् अभवन् मातृमद्भिः ॥
सर्वाष् टीकाः ...{Loading}...
१० त्वम् अस्य् आवपनी
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् अस्य् आवपनी जनानाम्
अदितिः कामदुघा विश्वरूपा ।
यत् त ऊनं तत् त आ पूरयाति
प्रजापतिः प्रजाभिः संविदानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् अस्य् आवपनी जनानाम्
अदितिः कामदुघा विश्वरूपा ।
यत् त ऊनं तत् त आ पूरयाति
प्रजापतिः प्रजाभिः संविदानः ॥