००५

सर्वाष् टीकाः ...{Loading}...

०१ यस्यां गायन्ति नृत्यन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यां गायन्ति नृत्यन्ति
जना मर्त्या वैलवाः ।
युज्यन्ते यस्याम् आक्रन्दो
यस्यां वदति दुन्दुभिः ।
सा नो भूमिः प्र णुदतां सपत्नान् +++(Bhatt. sapatnāṃ)+++
यो नो द्वेष्ट्य् अधरं तं कृणोतु ॥

०२ यस्यां पुरो देवकृताः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यां पुरो देवकृताः
क्षेत्रे यस्यां विकुर्वते ।
प्रजापतिः पृथिवीं विश्वगर्भाम्
आशामाशां रण्यां नः कृणोतु ॥

०३ जनं बिभ्रती बहुधा

विश्वास-प्रस्तुतिः ...{Loading}...

जनं बिभ्रती बहुधा विवाचसं
नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य नो दुहां
ध्रुवेव धेनुर् अनपस्फुरन्ती ॥

०४ यस् ते सर्पो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा
हेमन्तजब्धो भृमलो गुहा शये ।
क्रिमिर् इल्मं पृथिवि प्रावृषि यद् एजति
तन् नः सर्पन् मोप सृपद् +++(Bhatt. sṛpa(d))+++
यच् छिवं तेन नो मृड ॥

०५ ये ते पन्थानो

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते पन्थानो बहुधा जनायना
रथस्य वर्त्मन् मनसश् च यातवे ।
येभिश् चरन्त्य् उभये भद्रपापास्
तं पन्थां जयेमानमित्रम् अतस्करम् ॥

०६ मन्दं बिभ्रती गुरुभृद्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्दं (⟨ मल्वं?) बिभ्रती गुरुभृद्
भद्रपापस्य निधनं तितिक्षुः ।
सूकरेण पृथिवी संविदाना
वराहाय वि जिहीते मृगाय ॥

०७ ये त आरन्याः

विश्वास-प्रस्तुतिः ...{Loading}...

ये त आरन्याः पशवो मृगा वने हिताः
सिंहा व्याघ्राः पुरुषादश् चरन्ति ।
उलं वृकं पृथिवि दुच्छुनाम् इत
ऋक्षीकां रक्षो अप बधास्मत् ॥

०८ ये गन्धर्वाप्सरसो ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये गन्धर्वाप्सरसो
ये चरायाः किमीदिनः ।
पिशाचान् सर्वा रक्षांसि
तान् अस्मद् भूमे यावय ॥

०९ यां द्विपादः पक्षिणः

विश्वास-प्रस्तुतिः ...{Loading}...

यां द्विपादः पक्षिणः संपतन्ति
हंसाः सुपर्णाः शकुना वयांसि ।
यस्यां वात ईयते मातरिश्वा
रजांसि कृण्वंश् च्यावयंश् च वृक्षान् ।
वातस्य प्रवाम् उपवाम् अनु वात्य् अर्चिर्
यस्यां कृष्णम् अरुणं च संभृते
अहोरात्रे विहिते भूम्याम् अधि ॥

१० वर्षेण भूमिः पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

वर्षेण भूमिः पृथिवी वृतावृता ।
सा नो दधातु भद्रया
प्रिये धामनिधामनि ॥